________________
10
भाष्यगाथाः ९७०-७९] प्रथम उद्देशः ।
आरुहणे ओरुहणे, निसियण गोणादिणं च गाउम्हा ।
भुम्माहारच्छेदे, उवक्कमेणं च परिणामो ॥ ९७५ ॥ शकटे गवादिपृष्ठेषु च लवणादीनां यद् भूयो भूय आरोहणमवरोहणं च, तथा यत् तस्मिन् शकटादौ लवणादिभरोपरि मनुष्या निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा तेन च परिणामो भवति । तथा यो यस्य भौमादिकः-पृथिव्यादिक आहारस्तव्यवच्छेदे तस्य छ 'परिणामः' उपक्रमः शस्त्रम् , उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः । तच्च शस्त्रं त्रिधाखकायशस्त्रं परकायशस्त्रं तदुभयशस्त्रं चेति । तत्र खकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पाण्डुभूमस्येति । परकायशस्त्रं यथा-अग्निरुदकस्य, उदकं वा अग्नेरिति । तदुभयशस्त्रं यथा-उदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ॥ ९७५ ॥
चोएई वणकाए, पगए लोणादियाण किं गहणं ।
आहारेण हिगारो, तस्सुवकारी अतो गहणं ॥ ९७६ ।। शिष्यो नोदयति-'वनस्पतिकाये' प्रलम्बलक्षणे प्रकृते लवणादीनां पृथिवीकायिकानां किमर्थमत्र ग्रहणं क्रियते ? इति । सूरिराह-आहारेण तावदत्र सूत्रेऽधिकारः, तस्य चाहारस्य लवणमतिशयेनोपकारि, तद्विरहितस्याऽऽहारस्य नीरसत्वात् , अतस्तद्रहणमिति ॥ ९७६ ॥ 15 यद्येवं ततः
छहिँ निप्फजइ सो ऊ, तम्हा खलु आणुपुन्वि किं न कया।
पाहनं बहुयत्त, निप्फत्ति सुहं च तो न कमो ॥ ९७७॥ 'षड्भिः' पृथिवीकायादिभिः ‘सः' आहारो निप्पद्यते अतः षडपि कायाः किं नानुपूर्त्या सूत्रे 'कृताः' गृहीताः ?, यथा-"नो कप्पइ निग्गंथाण वा निम्गंथीण वा पुढविकाइए गिण्हित्तए" 20 इत्यादि । आचार्यः प्राह-तस्मिन्नाहारे वनस्पतेः प्राधान्यम् , मुख्यतया तस्यैवाऽऽहरणीयत्वात् । तथा 'बहुत्वम्' उपयोगबाहुल्यं वनस्पतिरागच्छति । वनस्पतिकायेन च यथा सुखमाहारस्य निष्पतिर्न तथा पृथिव्यादिभिः कायैः । तत एभिः कारणैर्न ‘क्रमः' पृथिव्यादीनामानुपूर्वीग्रहणलक्षणः कृतः, किन्तु केवलस्यैव वनस्पतेः सूत्रे ग्रहणं कृतमिति ।। ९७७ ।। गतं क्षेत्रतो लक्षणम् । अथ कालत आह
उप्पल-पउमाई पुण, उण्हे दिन्नाइँ जाम न धरिती । मोग्गरग-जूहियाओ, उण्हे छूढा चिरं होति ॥ ९७८ ॥ मगदंतियपुप्फाई, उदए छूढाइँ जाम न धरिती ।
उप्पल-पउमाइं पुण, उदए छूढा चिरं होंति ॥ ९७९ ॥ उत्पलानि पद्मानि च 'उप्णे' आतपे दत्तानि 'याम' प्रहरमानं कालं 'न ध्रियन्ते' नावति-30 १°न वा परि त. डे० विना ॥ २ °मने का मो० ले० ॥ ३°कायिकादिभिः मो.॥ ४ मो• ले• विनाऽन्यत्र-च उदकयोनिकत्वात् 'उष्णे' भा० त० डे० । च शीतयोनिकत्वात् 'उणे'कां०॥