________________
३०६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ यस्य मूलस्य भग्नस्य समो भङ्गः प्रदृश्यते अनन्तजीवं तु तद् मूलम् । यश्च 'अन्योऽपि' स्कन्धादिकस्तथाविधः समभङ्गेन भज्यते सोऽप्यनन्तजीवो ज्ञातव्य इति ॥ ९६९ ॥
जस्स मूलस्स भग्गस्स, हीरो भंगे पदिस्सए।
परित्तजीवे उ से मूले, जे याऽवऽन्ने तहाविहे ॥ ९७० ॥ । यस्य मूलस्य भग्नस्य 'हीरः' तन्तुकविशेषो भङ्गे वंशस्येव प्रदृश्यते परीत्तजीवं तु तद् मूलम् । यश्च 'अन्योऽपि' स्कन्धादिकस्तथाविधो भङ्गे दृश्यमानहीरः सोऽपि प्रत्येकजीव इति ॥ ९७० ॥
जस्स मूलस्स कट्ठातो, छल्ली बहलतरी भवे ।
अणंतजीवा उ सा छल्ली, जा याऽवऽन्ना तहाविहा ॥ ९७१॥ यस्य मूलस्य सम्बन्धिनः 'काष्ठात्' सारात् 'छल्ली' बाह्या त्वक् 'बहलतरा' स्थूलतरा भवेत् , 10 वथा शतावर्याः, अनन्तजीवा तु सा छल्ली । या चान्याऽपि तथाविधा । काष्ठमपि तस्यानन्तजीवं द्रष्टव्यम् ॥ ९७१ ॥
जस्स मूलस्स कट्ठातो, छल्ली तणुयतरी भवे ।
परित्तजीवा तु सा छल्ली, जा याञ्चऽण्णा तहाविहा ॥ ९७२ ॥ यस्य मूलस्य काष्ठात् छल्ली 'तनुकतरा' श्लक्ष्णतरा भवेत् परीत्तजीवा तु सा छल्ली, यथा 15 सहकारादेः, या चान्याऽपि तथाविधा ॥ ९७२ ॥ गतं द्रव्यतो लक्षणम् । अथ क्षेत्रत आह
जोअणसयं तु गंता, अणहारेणं तु भंडसंकंती।
वाया-ऽगणि-धूमेण य, विद्धत्थं होइ लोणाई ॥९७३ ॥ लवणादिकं खस्थानाद् गच्छत् प्रतिदिवसं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात् परतो मत्वा सर्वथैव 'विध्वस्तम्' अचित्तं भवति । आह शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्ती20 भवति ? इत्याह- अनाहारेण, यस्य यद् उत्पत्तिदेशादिकं साधारणं तत् ततो व्यवच्छिन्नं खोपष्टम्भकाहारव्यवच्छेदाद् विध्वस्यते । तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात् पूर्वस्माद् भाजनादपरापरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्कम्यमाणं विध्वस्पते । तथा वातेन वा अग्मिना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति ॥ ९७३ ॥ ___"लोणाई" इत्यत्र आदिशब्दादमी द्रष्टव्याः25
हरियाल मणोसिल पिप्पली य खजूर मुद्दिया अभया ।
आइन्नमणाइन्ना, ते विहु एमेव नायव्वा ॥९७४ ॥ हरितालं मनःशिला पिप्पली च खर्जूरः एते प्रतीताः, 'मुंद्रिका' द्राक्षा 'अमया' हरीतकी । एतेऽपि 'एवमेव' लवणवद् योजनशतगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः । परमेकेऽत्राचीर्णा अपरेऽनाचीर्णाः । तत्र पिप्पली-हरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । खजूर-मुद्रि30 कादयः पुनरनाचीर्णा इति न गृह्यन्ते ॥ ९७४ ॥ अथ सर्वेषां सामान्येन परिणमनकारणमाह
१ "वाया-ऽऽयव-धूमेण य" इति पाठः चूर्णिकृतोऽभिमतः, भा० पुस्तकेऽप्येतदनुसारेणैव टीका वर्तते, (दृश्यतां टिप्पणी २), न चायं पाठोऽस्मत्पार्श्वस्थादर्शेषु क्वचिद् दृश्यते ॥ २ वा आतपेन वा अग्नि भा० । “वाया-ऽऽतव-धूमेण य विद्धत्थं भवति लोणादी" इति चूर्णौ ॥ ३ 'मृद्धीका' मो० ॥