________________
भाष्यगाथाः ९६४-६९] प्रथम उद्देशः ।
.३०५ एवंविधं च षट्स्थानपतितत्वं प्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति । यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति । अत एवाह-'तेन' कारणेन यत् किमपि 'श्रुतं' चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्त्तते इति ॥ ९६५ ।। अथ यदुक्तं "प्रज्ञापनया द्वावपि तुल्यौ" (गा० ९६३) तद्भावनामाह
केवल विन्नेयत्थे, सुयनाणेणं जिणो पगासेइ ।
सुयनाणकेवली वि हु, तेणेवऽत्थे पगासेइ ॥ ९६६ ॥ केवलेन विज्ञेया येऽर्थास्तान यावतः श्रुतज्ञानेन 'जिनः' केवली प्रकाशयति । इह च केवलिनः सम्बन्धी वाग्योग एव श्रोतृणां भावश्रुतकारणत्वात् कारणे कार्योपचारात् श्रुतज्ञानमुच्यते, न पुनस्तस्य भगवतः किमप्यपरं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते, “नट्ठम्मि उ छाउमथिए 10 नाणे" ( आव० नि० गा० ५३९) इति वचनात् । श्रुतज्ञानकेवल्यपि तानेव तावतः 'तेनैव' श्रुतज्ञानेन 'अर्थान्' जीवादीन् प्रकाशयति । अतः "श्रुतकेवलि-केवलिनौ द्वावपि प्रज्ञापनया तुल्यौ” इति स्थितम् । तदेवं यथा केवली द्रव्य-क्षेत्र-काल-भावैर्वस्तु जानाति तथा गीतार्थोऽपि जानीते ॥ ९६६ ॥ अत्र पुनः प्रलम्बाधिकाराद् द्रव्यतः परीत्तमनन्तं वा येन लक्षणेन जानाति तदभिधित्सुराह
15 गूढछिरागं पत्तं, सच्छीरं जं च होइ निच्छीरं । [आ.नि. १४०]
जं पि य पणद्वसंधि, अणंतजीवं वियाणाहि ॥ ९६७ ॥ यत् पत्रं सक्षीरं निःक्षीरं वा 'गूढशिराकं भवति' गूढाः-गुप्ता अनुपलक्ष्याः शिराः-स्नायवो यस्य तद् गूढशिराकम् , तथा यदपि च 'प्रनष्टसन्धिकं' सर्वथाऽनुपलक्ष्यमाणपत्राद्वयसन्धि, तदेवंविधं पत्रम् 'अनन्तजीवम्' अनन्तकायिकं विजानीहीति ॥ ९६७ ॥
20 __ अथ मूल-स्कन्धादीनां सर्वेषामप्यनन्तकायत्वे लक्षणमाह
चक्कागं भजमाणस्स, गंठी चुण्णघणो भवे । (आ.नि. १३९]
पुढविसरिसेण भेएणं, अणंतजीवं वियाणाहि ॥९६८॥ ___ यस्य मूलादेर्भज्यमानस्य चक्राकारो भङ्गो भवति सम इत्यर्थः । तथा 'ग्रन्थिः' पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति । कोऽर्थः ?—यस्य भज्यमानस्य अन्र्घनश्चूर्ण उड्डी-25 यमानो दृश्यते । पृथिवी नाम केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मिता वा, यथा तस्या भिद्यमानायाः समो भेदो भवति एवं समभेदेन भिद्यमानं तदेवंविधं मूलादिकमनन्तजीवं विजानीहि ॥ ९६८ ॥ इदमेव स्पष्टयन्नाह
जस्स मूलस्स भग्गस्स, समो भंगो पदीसई ।
अणंतजीवे उ से मूले, जे याऽवग्ने तहाविहे ॥ ९६९॥ 30 १°न् प्रज्ञापनायोग्यान् श्रुत° भा० ॥ २ °ल्यपि 'हुः' निश्चितं तेनैव' भा० ॥ ३°त्यर्थः । यस्य चाकादिग्रन्थिकस्य भिद्यमानस्य चूर्णघनो मेदो भवति, चूर्णघनो नाम धनीकृतो लोलीकृतो यस्तन्दुलादीनां चूर्णस्तत्समानो भेदो भवतीति; यद्वा 'ग्रन्थिः' भा० ॥