________________
15
३०४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ धिकः परं 'प्रज्ञप्त्या' प्रज्ञापनया श्रुतकेलिनः केवली 'तुल्यः' सदृशवाक्पर्यायः । कुतः ? इत्याहयतः केवलज्ञानं 'मूकं' अमुखरम् । किमुक्तं भवति ?-यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याऽविषयभूता भावाः केवलिनाऽवगम्यन्ते तेषामप्रज्ञापनीयतया केवलिनाऽपि वक्तुमशक्यत्वात् ॥ ९६३ ॥ आह कियन्तः प्रज्ञापनीयाः ? कियन्तोवा 5 अप्रज्ञापनीया भावाः ? इति तावद् वयं जिज्ञासामहे अतो निरुच्यतामेतद् भगवद्भिरित्याशङ्कयाह
पनवणिजा भावा, अणंतभागो उ अणभिलप्पाणं ।
पन्नवणिजाणं पुण, अणंतभागो सुअ निबद्धो ॥ ९६४ ॥ ये प्रज्ञापयितुं-वक्तुं शक्यन्ते ते प्रज्ञापनीयाः अभिलाप्या इत्येकोऽर्थः, ते च भू-भूधरविमान-ग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः । द्वावपि च राशी अनन्तौ, परं महान् पर10 स्परं विशेषः । तथाहि-प्रज्ञापनीया भावाः सर्वेऽपि समुदिताः सन्तोऽनभिलाप्यानां भावानामनन्तभागो भवति, अनन्ततमे भागे वर्तन्त इति भावः । तेषामपि प्रज्ञापनीयानां भावानामनन्ततम एव भागः 'श्रुते' द्वादशाङ्गलक्षणे सूत्ररचनया निबद्धः, अनन्तकस्याऽनन्तभेदभिन्नत्वादित्यभिप्रायः ॥ ९६४ ॥ आह कथमेतत् प्रतीयते यथा 'प्रज्ञापनीयानामनन्तभागः श्रुते निबद्धः' ? उच्यते
जं चउदसपुव्वधरा, छट्ठाणगया परोप्परं होति ।।
तेण उ अणंतभागो, पनवणिजाण जं सुत्तं ॥ ९६५ ॥ 'यद्' यस्मात् चतुर्दशपूर्वधराः 'षट्स्थानगताः' अनन्तभागादिषट्स्थानवर्तिनः परस्परं भवन्ति । कथम् ? इति चेद् उच्यते-इह चतुर्दशपूर्वी चतुर्दशपूर्विणः किं तुल्यः ? किं वा हीनः ? किं वाऽभ्यधिकः ? इति चिन्तायां निर्वचनं तुल्यो वा हीनो वा अभ्यधिको वा । यदि तुल्यस्तदा
तुल्यत्वादेव नास्ति विशेषः । अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्याऽनन्तभागहीनो वा अस20 हयेयभागहीनो वा सङ्ख्येयभागहीनो वा सङ्ख्येयगुणहीनो वा असङ्ख्येयगुणहीनो वा अनन्तगुण
हीनो वा । अथाभ्यधिकस्ततो यदपेक्षयाऽभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिको वा असङ्ख्येयभागाभ्यधिको वा सङ्ख्येयभागाभ्यधिको वा सङ्ख्येयगुणाभ्यधिको वा असङ्ख्येयगुणाभ्यधिको वा अनन्तगुणाभ्यधिको वा । आह समाने सर्वेषामप्यक्षरलाभे षट्स्थानपतितत्वमेव कथं जाघटीति ?
उच्यते-एकस्मात् सूत्रादनन्ता-ऽसङ्ख्येय-सङ्ख्येयगम्यार्थगोचरा ये मतिविशेषाः श्रुतज्ञानाभ्यन्तर25 वर्तिनस्तैः परस्परं षट्स्थानपतितत्वं न विरुध्यते । तदुक्तम्
अक्खरलंमेण समा, ऊणहिया हुंति मइविसेसेहिं । नि.भा. गा. ४८२५]
ते पुण मईविसेसे, सुयनाणभंतरे जाण ॥ (विशे० गा० १४३) ततो मे न भविष्यति ॥ १ ॥ अवधृतार्थे तु यद् नियतं निश्चितं वा तदपि काममित्युच्यते । इह लवधृतार्थे दृष्टव्यः ॥” इति चूर्णिः ॥
१°वलि केवलिनौ परस्परं द्वावपि तुल्यौ । कुतः? इत्याह-यतः केवलज्ञानं 'मूकं' स्वखरूपप्रतिपादनेऽप्यमुखरं श्रुतज्ञानं तु स्वपरखरूपप्रत्यायनपटीय इति कृत्वा यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवलीति । ये तु भा० ॥ २ °न्ततम एव भागो भा० ॥ ३°ग एव क्षु भा० ॥