SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ९५७-६३] प्रथम उद्देशः । एवमत्रापि योगी तीर्थकरः, तदुपदेशानुसारेणोत्सर्गा-ऽपवादाभ्यां यथोक्ता क्रियां कुर्वन् गीतार्थोऽपि न वाच्यतामर्हति ॥ ९५९ ॥ अथ “कत्त त्ति य जोगि त्ति य" (गा० ९५८) पदद्वयमेव प्रकारान्तरेण व्याख्याति अहवण कत्ता सत्था, न तेण कोविजती कयं किंचि । कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो ॥ ९६० ॥ "अहवण" त्ति अखण्डमव्ययं अथवार्थे वर्तते । कर्ता 'शास्ता' तीर्थकर उच्यते । यथा 'तेन' तीर्थकरेण कृतं कार्य किश्चिदपि न कोप्यते एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् 'कर्ता इव' तीर्थकर इवाकोपनीयत्वात् कर्ता द्रष्टव्यः । एवं योग्यपि ज्ञातव्यः । किमुक्तं भवति ?यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽप्युत्सर्गा-ऽपवादबलवेत्ता अपवादक्रियां कुर्वाणोऽपि प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगीव ज्ञातव्यः ॥ ९६० ॥ 10 एवमाचार्येणोक्ते शिप्यः प्राह किं गीयत्थो केवलि, चउविहे जाणणे य गहणे य । तुलेऽराग-दोसे, अणंतकायस्स वजणया ॥ ९६१॥ किं गीतार्थः केवली येन तीर्थकृत इव तस्य वचनं करणं चाकोपनीयम् ? । सूरिराहओमिति ब्रूमः । तथाहि-द्रव्यादिभेदाद् यत् चतुर्विधं ज्ञानं तद् यथा केवलिनस्तथा गीतार्थ-15 स्यापि; तथा यत् प्रलम्बानामेकानेकग्रहणविषयं विषमप्रायश्चित्तप्रदानम् , यश्च तत्र तुल्येऽपि जीवत्वे राग-द्वेषाभावः, या चाऽनन्तकायस्य वर्जना एतानि यथा केवली प्ररूपयति तथा गीतार्थोऽपीति द्वारगाथासमासार्थः ॥ ९६१ ॥, विस्तरार्थं प्रतिपदं बिभणिषुराह-- सव्वं नेयं चउहा, तं वेइ जिणो जहा तहा गीतो । चित्तमचित्तं मीसं, परित्तऽणंतं च लक्खणतो ॥ ९६२ ॥ 'सर्वमपि' जगत्रयगतं ज्ञेयं चतुर्धा । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । 'तत्' चतुविधमपि यथा 'जिनः' केवली ब्रूते तथा गीतार्थोऽपि । यद्वा "तं वेइ" ति 'तत्' चतुर्विधं ज्ञेयं यथा जिनः 'वेत्ति' जानाति तथा गीतार्थोऽपि श्रुतज्ञानी जानात्येव । तथाहि-यथा केवली सचित्तमचित्तं मिश्रं परीत्तमनन्तं च लक्षणतो जानाति प्रज्ञापयति वा तथा श्रुतधरोऽपि श्रुतानुसारेणैव सचित्तलक्षणेन सचित्तं एवमचित्त-मिश्र-परीत्ता-ऽनन्तान्यपि स्वस्खलक्षणावैपरीत्येन जानाति प्ररू-25 पयति चेति केवलीव द्रष्टव्यः ॥ ९६२ ॥ आह केवली समस्तवस्तुस्तोमवेदी, श्रुतकेवली पुनः केवलज्ञानानन्ततमभागमात्रज्ञानवान् ततः कथमिव केवलितुल्यो भवितुमर्हति ? इत्याह कामं खलु सव्वन्नू, नाणेणहिओ दुवालसंगीतो। पन्नत्तीइ उ तुल्लो, केवलनाणं जओ मूयं ॥ ९६३ ॥ काममनुमतं खल्वस्माकं 'सर्वज्ञः' केवली 'द्वादशाङ्गिनः' श्रुतकेवलिनः सकाशाद् ज्ञानेनाs-30 १°षयं तुल्ये जीवत्वेऽजीवत्वे वा विषमप्रायश्चित्तप्रदानम्, यश्च तत्र राग-द्वेषा भा०॥ २तुल्ला भा०॥ ३“कामं खलु० गाधा कण्ठ्या । काममत्रावधृतार्थे, कामाभिधानसर्थद्वये भवति-कामायेऽवधृतार्थे च । तत्र कामार्थे यथा-कामं जानामि ते मूलं, सङ्कल्पातू किल जायसे।न लां सङ्कल्पयिष्यामि. 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy