________________
३०२
सनियुक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ खलु त्रिपरिरया द्रष्टव्या, "री गतौ” परि-समन्ताद रयणं परिरयः-परिभ्रमणमित्यर्थः, त्रयः परिरया यस्यां सा त्रिपरिरया । किमुक्तं भवति ?–एषणीयाहारान्वेषणार्थ स्वग्रामादौ तिस्रो वाराः सर्वतः पर्यट्य यद्येषणीयं न लभते ततः पश्चाद् ‘अलाभे' अप्राप्तौ पञ्चकपरिहाण्या यतते ॥ ९५६॥ अथ फलद्वारम्-गीतार्थः प्रथममेव कार्य प्रारभमाणः परिभावयति-एवमनु5 तिष्ठतो ममान्यस्य वा फलं भविष्यति ? न वा ? । तच्च फलं द्विविधम् । तदेवाह
इह-परलोगे य फलं, इह आहाराइ इक्कमेक्कस्स ।
सिद्धी सग्ग सुकुलता, फलं तु परलोइयं एयं ॥ ९५७ ॥ इहलोकफलं परलोकफलं चेति फलं द्विधा । तत्रेहलोकफलमाहारादि, आदिशब्दाद् वस्त्रपात्रादि । तथा सिद्धिगमनं स्वर्गगमनं सुकुलोत्पत्तिश्च एतत् पारलौकिकं फलम् । 'एतद' द्वयमपि 10 'एकैकस्य' आत्मनः परस्य च परस्परोपकारेण यथा भवति तथा गीतार्थः समाचरति । यच्च गीतार्थोऽरक्त-द्विष्टः प्रतिसेवते तत्र नियमादप्रायश्चित्ती भवति ॥ ९५७ ॥ आह केन पुनः कारणेनाप्रायश्चित्ती ? उच्यते
खेत्तोयं कालोयं, करणमिणं साहओ उवाओऽयं ।
कत्त त्ति य जोगि त्ति य, इय कडजोगी वियााहि ॥९५८॥ 15 यो न रागे न द्वेषे किन्तु तुला दण्डवद् द्वयोरपि मध्ये वर्तते स ओजा भण्यते । क्षेत्रे
अध्वादौ ओजाः क्षेत्रौजाः, काले-अवमौदर्यादौ ओजाः कालौजाः, क्षेत्रे काले च प्रतिसेवमानो न राग-द्वेषाभ्यां दूप्यते इत्यर्थः । कथम् ? इत्याह-यतः स गीतार्थः 'करणमिदं' 'सम्यक्क्रियेयम् , एवं क्रियमाणे महती कर्मनिर्जरा भवति' इति विमृशति । तथा ज्ञान-दर्शन-चारित्राणि साधनीयानि, तेषां च साधकोऽयमुपायः, यद् असंस्तरणे यतनया प्रलम्बसेवनम् । तथा 'कृतयोगी' 20 गीतार्थः स कर्तेति च योगीति च भण्यते, "इय" एवं विजानीहि इति नियुक्तिगाथासमासार्थः ॥ ९५८ ॥ अथैनामेव विवृणोति
ओयम्भूतो खित्ते, काले भावे य जं समायरइ ।
कत्ता उ सो अकोप्पो, जोगीव जहा महावेजो ॥ ९५९ ॥ यः 'ओजोभूतः' राग-द्वेषविरहितो गीतार्थः 'क्षेत्रे' अध्वादौ 'काले' दुर्भिक्षादौ 'भावे च' 25 ग्लानत्वादौ प्रलम्बादिप्रतिसेवारूपं यत् किमपि समाचरति सः 'सम्यक्क्रियेयम् , साधकोऽयमुपायः' इत्यालोच्यकारी कर्ता 'अकोप्यः' अकोपनीयः, अदूषणीय इत्युक्तं भवति । क इव ? इत्याह-'योगीव यथा महावैद्यः' इति, 'यथा' इति दृष्टान्तोपन्यासे, 'योगी' धन्वन्तरिः, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसम्भवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्रं चक्रे,
तच्च यथाम्नायं येनाधीतं स महावैद्य उच्यते । स च आयुर्वेदप्रामाण्येन क्रियां कुर्वाणो 'योगीव' 30 धन्वन्तरिरिव न दूषणभाग् भवति, यथोक्तक्रियाकारिणश्च तस्य तत् चिकित्साकर्म सिध्यति;
१ "रीश् गति-रेषणयोः” इति हैमधातुपाठे ॥ २°णाति ता० ॥ ३ लम्बादिप्रतिसेवनम् । 'कर्तेति च योगीति च' इतिशब्दौ स्वरूपपरामर्श एवमर्थे वा, 'इति' अमुना प्रकारेण 'कृतयोगी' गीतार्थो भवति 'इति' एवं विजानीहि इति गाथास भा० ॥