________________
३०१
भाष्यमाथाः ९४९-५६] प्रथम उद्देशः । ।
स हि गीतार्थः प्रलम्बादिकं प्रतिसेवमान एवं चिन्तयति-अशिवादिषु शुल्कस्थानीयेषु अकल्प्यप्रतिसेवया केभ्योऽपि संयमस्थानेभ्यः स्खलितस्यापि मम 'ततः पश्चात्' अशिवादिषु व्यतीतेषु वाचनां ददत आचार्यादीनां वैयावृत्त्ये तपः-संयमा-ऽध्ययनेषु वा उद्यमं कुर्वाणस्य भूयानन्यो लाभो भविष्यति, अकल्प्यप्रतिसेवाजनितं चातीचारं प्रायश्चित्तेन शोधयिष्यामि-इति बहुतरं लाभमल्पतरं व्ययं परिभाज्य गीतार्थः समाचरति । अगीतार्थः पुनरेतदाय-व्ययखरूपं न जाना-5 तीति ॥ ९५३ ॥ गतमायद्वारम् । अथ कारणा-ऽऽगाढद्वारद्वयमाह
नाणाइतिगस्सट्ठा, कारण निकारणं तु तव्वजं ।
अहिडक विस विसूइय, सज्जक्खयमूलमागाढं ॥ ९५४ ॥ गीतार्थः कारण एव प्रतिसेवते नाकारणे । आह किमिदं कारणम् ? किं वा अकारणम् ? इत्याह-'ज्ञानादित्रयस्य' ज्ञान-दर्शन-चारित्ररूपस्याऽर्थाय यत् प्रतिसेवते तत् कारणम् , 'तद्वर्ज' 10 ज्ञानादित्रयवर्ज सेवमानस्य निष्कारणमुच्यते । तथा गीतार्थों यादृशमागाढे प्रतिसेव्यं तादृशमागाढ एव यादृशं पुनरनागाढे तादृशमनागाढ एव प्रतिसेवते । अथ किमिदमागाढम् ? किं वा अनागाढम् ? उच्यते-अहिना-सर्पण दष्टः कश्चित् साधुः, विषं वा केनचिद् भक्तादिमिश्रितं दत्तम् , विसूचिका वा कस्यापि जाता, सद्यःक्षयकारि वा कस्यापि शूलमुत्पन्नम् , एवमादिकमाशुषाति सर्वमप्यागाढम् ; एतद्विपरीतं तु चिरघाति कुष्ठादिरोगात्मकमनागाढम् ॥ ९५४ ॥ 15 अथ वस्तु-युक्तद्वारे व्याचष्टे
आयरियाई वत्थु, तेसिं चिय जुत्त होइ जं जोग्गं ।
गीय परिणामगा वा, वत्थु इयरे पुण अवत्थु ॥ ९५५ ॥ आचार्यादिः प्रधानपुरुषो यद्वा गीतार्थः सामान्यतो वस्तु भण्यते, परिणामका वा साधवो वस्तु । एतादृशमात्मानं परं वा वस्तुभूतं ज्ञात्वा प्रतिसेवते प्रतिसेवाप्यते वा । 'इतरे' प्रतिपक्ष-20 भूताः पुनरनाचार्यादिरगीतार्थो वा अपरिणामका-ऽतिपरिणामका वा सर्वेऽप्यवस्तु भण्यन्ते । एतेषामेवाचार्यादीनां यद् योग्यं भक्त-पानौषधादिकं तद् युक्तम् , तद्विपरीतं पुनरयुक्तम् । एतद् युक्ताऽयुक्तखरूपं गीतार्थ एव जानाति नेतर इति ॥ ९५५ ॥ अथ सशक्तिक-यतनाद्वारद्वयमाह
घिइ सारीरा सत्ती, आय-परगता उ तं न हावेति ।
जयणा खलु तिपरिरया, अलंमें पच्छा पणगहाणी ॥.९५६ ॥ 25 शक्तिद्वेषा, धृति-संहननभेदात् । तत्र धृतिरूपां शारीरां च संहननरूपामात्मगतां पस्गतां च शक्तिं ज्ञात्वा आचार्योऽन्यो वा गीतार्थस्तां न हापयतीत्यत्र चतुर्भङ्गी सूचिता । सा चेयम्आत्मगता शक्तिर्विद्यते न परगता १ परगता नात्मगता २ आत्मगताऽपि परगताऽपि ३ नात्मगता न परगता ४ । तत्र प्रथमभङ्गे आचार्य आत्मनः शक्ति न हापयति, परस्य पुनरशक्तत्वाद यथायोगं प्रतिसेवनामनुजानीते । द्वितीयभङ्गे अशक्तत्वादात्मना प्रतिसेवते, परस्य तु समर्थत्वाद 30 नानुजानाति । तृतीयभने उभयोरपि शक्तिसद्भावादात्मनाऽपि न प्रतिसेवते परस्यापि न वितरति। चतुर्थभने पुनरुभयोरप्यशक्तत्वादात्मनाऽपि प्रतिसेवते परेणापि प्रतिसेवापयति । तथा यतना १°ण्यते भा० ॥