________________
5
३००
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ यिप्यत् ततः पटुरभविष्यत् , यच्चानेषणीयपारणकसमुत्थं पापं तत् पश्चात् प्रायश्चित्तेनाऽशोधयिष्यद् इत्युपाया-ऽनुपायस्वरूपमगीतार्थो न जानाति । ततश्च "अज्ञातमदेशकाले वा कार्यं कुर्वतस्तस्य शैक्षस्य विपत्तिमुपयाति" (गा० ९४४) इति प्रकृतम् ॥ ९४८ ॥ अत्रैव तात्पर्यमाह
संपत्ती य विपत्ती, य होज कजेसु कारगं पप्प ।
अणुवायतो विवत्ती, संपत्ती कालुवाएहि ॥ ९४९ ॥ सम्प्राप्तिश्च विपत्तिश्च कार्येषु 'कारकं' कर्तारं प्राप्य भवति । यदि अज्ञः कर्ता ततस्तेनाऽदेश-काले अनुपायत आरब्धस्य कार्यस्य विपत्तिर्भवति । अथासौ ज्ञस्ततस्तेन कालोपायाभ्यां देशकाले उपायेन चारब्धस्य कार्यस्य 'सम्प्राप्तिः' सिद्धिर्भवति ॥ ९४९ ॥ उपसंहरन्नाह----
इय दोसा उ अगीए, गीयम्मि उ कालहीणकारिम्मि । 10
गीयत्थस्स गुणा पुण, होति इमे कालकारिस्स ॥ ९५० ॥ "इय" एवमगीतार्थे कार्यकर्तरि दोषा भवन्ति । गीतार्थेऽपि कालहीनकारिणि हीने वा अधिके वा काले कार्यकारिणि एत एव दोषाः । यः पुनर्गीतार्थ उपायेनाऽन्यूनातिरिक्त काले कार्य करोति तस्य गीतार्थस्य कालकारिण इमे गुणा भवन्ति ॥ ९५० ॥ तानेवाह
__ आयं कारण गाढं, वत्थु जुत्तं ससत्ति जयणं च ।
सव्वं च सपडिवक्खं, फलं च विधिवं वियाणाइ ॥ ९५१ ॥ 'आय' लाभं 'कारणम्' आलम्बनं 'गाढम्' आगाढग्लानत्वं 'वस्तु' द्रव्यं दलिकमित्यनर्थान्तरं 'युक्तं' योग्यं 'सशक्तिकं समर्थ 'यतनां' त्रिःपरिभ्रमणादिलक्षणाम् ; एतदायादिकं सर्वमपि सप्रतिपक्षं गीतार्थो विजानाति । तत्राऽऽयस्य प्रतिपक्षोऽनायः, कारणस्याऽकारणम् , आगाढस्याऽना
गाढम् , वस्तुनोऽवस्तु, युक्तस्याऽयुक्तम् , सशक्तिकस्याऽशक्तिकः, यतनाया अयतनेति यथाक्रम 20 प्रतिपक्षाः । तथा फलं चैहिकादिकं विधिवान्' गीतार्थो विजानातीति नियुक्तिगाथासमासार्थः ॥ ९५१ ॥ अथ प्रतिपदं विस्तरार्थमाह
सुंकादीपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिलु ।
एमेव य गीयत्थो, आयं दटुं समायरइ ॥ ९५२ ॥ शुल्कं-राजदेयं द्रव्यम् , आदिशब्दाद भाटक-कर्मकरवृत्त्यादिपरिग्रहः, यथा शुल्कादिभिर्द्र25 व्योपक्षयहेतुभिः परिशुद्धः-निर्वटितो यदि कोऽपि लाभ उत्तिष्ठते तत एवं शुल्कादिपरिशुद्धे
लामे सति वाणिजो देशान्तरं गत्वा वाणिज्यचेष्टां 'करोति' आरभते, अथ लाभमुत्तिष्ठमानं न पश्यति ततो नारभते । एवमेव च गीतार्थोऽपि ज्ञानादिकम् 'आय' लाभं दृष्ट्वा प्रलम्बायकल्पप्रतिसेवां समाचरति नान्यथा ॥ ९५२ ॥ इदमेव स्पष्टयन्नाह
असिवाईसुंफत्थाणिएसु किंचिखलियस्स तो पच्छा।
वायण वेयावच्चे, लाभो तव-संजम-ऽज्झयणे ॥ ९५३ ॥ ___ १. फलं च विधिवं ऐहिकादिकं गीतार्थो विजानातीति समासार्थः भा० । “फलं च विविधं बियाणाइ” इति पाठानुसारेणेयं टीका, न चासो पाठः कस्मिंश्चिदपि पुस्तक उपलभ्यते । “विधिवानिति गीतार्थः” इति चूर्णौ ॥
30