________________
भाष्यगाथाः ९४३-४८]
प्रथम उद्देशः ।
२९९
सम्प्राप्तिश्च विपत्तिश्च, कार्याणां द्विविधा स्मृता ।
सम्प्राप्तिः सिद्धिरर्थेषु, विपत्तिश्च विपर्यये ॥ ततो न निप्पद्यत इत्युक्तं भवति ॥ ९४४ ॥ अत्रैव निदर्शनमाह-..
नक्खेणावि हु छिअइ, पासाए अभिनवुद्वितो रुक्खो। दच्छेजो वढतो, सो चिय वत्थुस्स भेदाय ॥ ९४५॥ जो य अणुवायछिन्नो, तस्सइ मूलाई वत्युभेदाय ।
अहिनव उवायछिन्नो, वत्थुस्स न होइ मेदाय ॥ ९४६॥ प्रासादे वट-पिप्पलादिवृक्षः 'अभिनवोत्थितः' अधुनोद्गतः सन् नखेनाऽपि 'हुः' निश्चितं 'छिद्यते' छेत्तुं शक्यते इति, अनेन कार्यस्य सुखसाध्यतोक्ता । स एव वृक्षः 'वर्धमानः' शाखाप्रशाखाभिः प्रसरन् दुश्छेद्यो भवति, कुठारेणापि च्छेत्तुं न शक्यत इति भावः । अपरं च 'वास्तुनः' 10 प्रासादस्य भेदाय जायते ॥ ९४५ ॥
यश्चानुपायेन-मूलोद्धरणलक्षणोपायमन्तरेण च्छिन्नः तस्यापि मूलान्यनुद्धतानि वास्तुभेदाय जायन्ते । एतेन चानारम्भे अदेश-कालारम्भेऽनुपायारम्भे च सुखसाध्यस्यापि कार्यस्य विपत्तिः क्लेशसाध्यता चोक्ता । अथ देश-काले उपायेन विधीयमानस्य यथा निष्पत्तिर्भवति तथा निदर्शयति-“अहिनव" इत्यादि उत्तरार्द्धम् । यस्तु वृक्षः 'अभिनवः' उद्गतमात्र उपायेन-प्रयत्नपूर्वकं 15 छिन्नो मूलान्यपि तस्योद्धृत्य करीषामिना दग्धानि स वास्तुनो भेदाय न भवति ॥ ९४६ ॥ एष दृष्टान्तः । अयमस्यैवोपनयः
पडिसिद्ध त्ति तिगिच्छा, जो उ न कारेइ अभिनवे रोगे। किरियं सो उ न मुञ्चइ, पच्छा जत्तेण वि करतो ॥ ९४७॥ सहसुप्पइअम्मि जरे, अट्ठम काऊण जो वि पारेइ ।
सीयल-अंबदवाणी, न हु पउणइ सो वि अणुवाया ॥९४८॥ यस्य साधोरादिको रोग उत्पन्नः स यदि
"तेगिच्छं नाभिनंदेजा, संचिक्खऽत्तगवेसए ।
एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे ॥” (उत्त० अ० २ गा० ३३) इति सूत्रमनुश्रित्य “प्रतिषिद्धा चिकित्सा" इति कृत्वा अभिनवे रोगे 'क्रियां' चिकित्सां न कार-25 यति स पश्चात् तस्मिन् रोगे प्रवर्षिते सति 'यलेनापि' महताऽप्यादरेण क्रियां कुर्वाणो न मुच्यते रोगात् । यदि पुनरधुनोत्थित एव रोगे क्रियामकारयिष्यत् ततो नीरुगभविष्यत् ॥ ९४७ ॥
यो वा अनुपायेन क्रियां करोति सोऽपि न प्रगुणीभवति, यथा सहसोत्पन्ने ज्वरेऽन्यस्मिन् वा अजीर्णप्रभवे रोगे “सहसुप्पन्न रोग, अट्ठमेण निवारए" इति वचनादष्टमं कृत्वा योऽपि न केवलं क्रियाया अकारक इत्यपिशब्दार्थः “सीयलअंबदवाणि" त्ति शीतलकूरा-ऽम्लद्रवादीनि पारयति 30 'मा पेया कारणीया भवतु' इति कृत्वा सोऽपि न प्रगुणीभवति ‘अनुपायात्' उपायाभावात् , प्रत्युत तेन शीतलकूरादिना स रोगस्तस्य गाढतरं प्रकुप्यति । यदि पुनस्तेन पेयादिनोपायेनाऽपार१°वाणि उ न ता० ॥ २ प्रवृद्धि गते सति डे० त० ॥
20