SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 10 २९८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ अथ निशीथचूर्ण्यभिप्रायेण व्याख्यायते--प्रथमः सोपसर्गदेश इव परिहार्यः । द्वितीयः पुनरगीतार्थः परं सारणिकः स च व्यसनीव ज्ञातव्यः । किमुक्तं भवति ?--सोऽगीतार्थः सन् यत् किमपि वशिप्यान् नोदयति सा नोदना तस्य व्यसनमिव द्रष्टव्यम् , अतो व्यसनाभिभूतभूपति वदसौ परिहार्यः । तृतीयः पुनरसारणिकत्वाद् गीतार्थोऽप्यज्ञनृपतुल्य इति कृत्वा परित्याज्यः । 5 आस्मिंश्च व्याख्याने "देसो व सोवसम्गो, पढमो बिइओ उ होइ वसणी वा । तइओ अजाणतुल्लो" त्ति पाठो द्रष्टव्यः । पुस्तकेष्वपि बहुष्वयमेव दृश्यत इति । यदुक्तं "रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो" (गा० ९३७) त्ति तदेतद् भावयति-"सारो दुविहो दुहेक्केको" सारो द्विविधः-लौकिको लोकोत्तरिकश्च । पुनरेकैको द्विधा-~-बाह्य आभ्यन्तरश्च ॥ ९४२ ॥ एतदेव व्याचष्टे--- गो-मंडल-धन्नाई, बज्झो कणगाइ अंतों लोगम्मि। लोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई ॥ ९४३ ॥ गोशब्देन गावो बलीवर्दाश्चोच्यन्ते, उपलक्षणत्वाद् हस्त्यश्वादीनामपि परिग्रहः; मण्डलमिति देशखण्डम् , यथा—षण्णवतिमण्डलानि सुराष्ट्रादेशः; अथवा गोमण्डलं नाम गोवर्गः, उपलक्ष णत्वाद् महिष्यादिवर्गोऽपि; धान्यानि शालिप्रभृतीनि, आदिशब्दाद् वास्तु-कुप्यादिपरिग्रहः; एष 13 लौकिको बाह्यः सारः । कनकं-सुवर्णम् , आदिग्रहणेन रूप्य-रत्नादीनि; एषः 'अन्तः' इति आभ्यन्तरः सारः 'लोके' लोकविषयो मन्तव्यः । एतेन द्विप्रकारेणापि सारेण राज्यं पार्थिवेनाsचिन्त्यमानं निस्सारं भवति । लोकोत्तरिकः सारो द्विधा-अन्तर्बहिश्च । तत्रान्तःसारो ज्ञानम् , आदिशब्दाद् दर्शन-चारित्रे च । बहिःसारो वस्त्रादिकः, आदिग्रहणेन शय्या पात्रादीनि गृह्यन्ते । अनेन च द्विविधेनापि लोकोत्तरिकसारेणाऽऽचार्येणाऽसार्यमाणो गच्छो निस्सारो भवतीति प्रकृ20 तम् । तस्माद् गणिनो गच्छमसारयत एतत् प्रायश्चित्तम् । अथवा यो भिक्षुरगीतार्थो गुरूणामनुपदेशेन प्रलम्बानि गृह्णाति तस्य सर्वमेतत् प्रायश्चित्तम् । गीतार्थोपदेशमन्तरेण वाऽगीतार्थस्य खयमेव कार्येषु प्रवर्त्तमानस्याऽयं दोषो भवति ॥ ९४३ ॥ सुहसाहगं पि कजं, करणविहूणमणुवायसंजुत्तं । अन्नायऽदेस-काले, विवत्तिमुवजाति सेहस्स ॥ ९४४ ॥ 25 सुखेन साधः-साधनं यस्य तत् सुखसाधकम् , “शेषाद्वा" (सिद्ध० ७-३-१७५ ) इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः । तदपि कार्य करणम्-आरम्भैः प्रयत्न इत्येकोऽर्थस्तद्विहीनम् , तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन संयुक्तम् , “अन्नाय" ति यद् यस्य कार्यमज्ञातं तत् तेनाऽऽरभ्यमाणम् , 'अदेश-काले च' अनवसरे विधीयमानं शैक्षस्याऽज्ञस्य विपत्तिमुपयाति । विपत्तिशब्देन कार्यस्याऽसिद्धिरत्राभिधीयते । तदुक्तम्गच्छं ण सारेति सो देसो व सोवसग्गो चइतव्यो । बिइओ जो अगीतत्यो गच्छं सारेति सो वसणीव राता चइतव्वो । ततिओ जो गीतत्थो गच्छं ण सारेति सो अजाणगणरिंदो ब्व चइतव्वो।" इत्यादि । १°ल्य एवेति । अस्मिंश्च भा० ॥ २ “मंडलं जधा-णावोतयमंडलं बंभाणमंडलं कोट्टयमंडलमित्यादि। अधवा गोमंडलं गोउलं, आदिग्गहणेणं कुवियं" इति चूर्णौ ॥ ३°म्भः तद्वि मो• ले• विना ।।
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy