SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २९७ भाष्यगाथाः ९३७-४२] प्रथम उद्देशः । यथा सप्तानां व्यसनानामन्यतरेण व्यसनेन युतो राजा राज्यं पालयितुं न जानाति, यो वा शेषव्यसनैरनभिभूतोऽपि विषयलोलुपतया नित्यमन्तःपुरे आस्ते सोऽपि 'कार्याणि' व्यवहारादीनि खयमात्मना 'नशीलयति' नावलोकत इत्युक्तं भवति, ततश्च यथेच्छमुच्छृङ्खलाः प्रजाः सञ्जायन्ते। एवमाचार्योऽप्यगीतार्थो गीतार्थो वा सातगौरवादिव्यसनोपहततया यदि खगच्छं न सारयति तदा गच्छः सर्वोऽपि निरङ्कुशः सञ्जायते । यतश्चैवमतोऽसारणिक आचार्यों दूरंदूरेण परिहर्त्तव्यः । ॥ ९३९ ॥ अथ व्यसनसप्तकमाह--- __ इत्थी जूयं मजं, मिगव्व वयणे तहा फरुसया य । दंडफरुसत्तमत्थस्स दूसणं सत्त वसणाई ॥ ९४० ॥ यद् राजा अन्तःपुरस्त्रीषु नित्यमासक्तस्तिष्ठति तत् स्त्रीव्यसनम् । यत्तु द्यूतविनोदेनानवरतं दीव्यति तद् द्यूतव्यसनम् । यत् पुनर्मद्यपानकेन नित्यं मूछित इवाऽऽस्ते तद् मद्यव्यसनम् । यत्तु 10 मृगया-आखेटकस्तत्रानेकेषां मृगादिजन्तूनां वधं करोति तद् मृगयाव्यसनम् । एतेषु चतुर्वप्यासक्तो राज्यकार्याणि न शीलयति । तथा यत् खर-परुषवचनैः सर्वानपि जनान् निर्विशेषमाक्रोशति तद् क्चनपरुषताव्यसनम् , अत्र वचनदोषेण दुरधिगमनीयो भवति । यत् पुनरनपराधे खल्पे वाऽपराधे अत्युग्रं दण्डं निवर्तयति तद् दण्डपारुप्यव्यसनम् , अत्र च पौर-जानपदानामत्युग्रदण्डभयेन नश्यतां क्रमेण च प्रजाया अभावे कीदृशं राज्यम् ? इति । अर्थोत्पत्तिहेतवो ये सामाधुपाय-15 चतुष्टयप्रभृतयः प्रकारास्तेषां यद् दूषणं तद् अर्थदूषणव्यसनम्, अत्र चार्थोत्पत्तिहेतून् दूषयतो न तथाविधोऽर्थ उत्पद्यते, अर्थोत्पत्त्यभावे चाचिरादेव कोशः परिहीयते, परिहीणकोशस्य च विनष्टमेव राज्यम् । एतानि सप्त व्यसनानि ॥ ९४० ॥ अथ प्रकारान्तरेण भङ्गानाह अहवा वि अगीयत्थो, गच्छं न सारेइ इत्थ चउभंगो। बिइए अगीयदोसो, तइतों न सारेतरो सुद्धो ॥ ९४१ ॥ अथवा अगीतार्थो गच्छं न सारयतीत्यत्र चतुर्भङ्गी। गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम्-अगीतार्थों गच्छं न सारयति १ अगीतार्थो गच्छं सारयति २ गीतार्थों गच्छं न सारयति ३ गीतार्थो गच्छं सारयति ४ । अत्र प्रथमस्य द्वौ दोषौ अगीतार्थत्वदोषः असारणादोषश्च । द्वितीयस्य पुनरेक एवागीतार्थत्वदोषः । तृतीयस्तु यन्न सारयति स एकस्तस्याऽसारणादोषः । 'इतरः' चतुर्थो भङ्गः शुद्धः ॥ ९४१ ॥ आद्यानां त्रयाणां भङ्गानां भावनामाह- 25 देसो व सोवसग्गो, पढमो तइओ तु होइ वसणी वा। बिइओ अजाणतुल्लो, सारो दुविहो दुहेकेको ॥ ९४२॥ प्रथमः' प्रथमभङ्गवर्ती आचार्यः सोपसर्गदेश इव परित्यक्तव्यः । 'तृतीयः' गीतार्थोऽप्यसारणिकत्वाद् व्यसनीव राजा परिहर्त्तव्यः । द्वितीयः' सारणिकोऽप्यगीतार्थत्वादज्ञनरेन्द्रतुल्य इति कृत्वा परिहार्य इति चूर्ण्यभिप्रायः । १ यद्वा भा० ॥ २ आस्ते, यस्तु राज्यनीतेरशायको नरेन्द्रः सः 'कार्याणि' भा० ॥ ३ परित्यक्तव्यः त० डे० ॥ ४ यद्यपि वृत्तिद्भिः “चूर्ण्यभिप्रायः” इत्यावेदितं तथापि चौँ किल निशीथचूर्ण्यभिप्रायानुसारिण्येव व्याख्या वरीयत्यते । तथाहि चूर्णिपाठः-“तत्थ जो पढमो अगीतत्थो 20 30
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy