________________
२९६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १
कुत्र गतः ? को वा मामापृच्छ्य गतः ? को वा अनापृच्छया ? यद्वा प्रलम्बं गृहीत्वा आगत्या - लोचितेऽन्येन वा निवेदिते यत् प्रायश्चित्तं तन्न ददाति, दत्त्वा वा न कारयति, न वा नोदनादिना खरण्टयति; एषा सर्वाऽप्यसारणाऽभिधीयते । आह किं कारणमाचार्यस्य षट्कायानविराधयतोऽपिः प्रायश्चित्तम् ? उच्यते - स्वसाधूनुत्पथे प्रवर्त्तमानानसास्यन्नसौ गच्छस्य विराध5 नायां वर्त्तते । तथा चोक्तमिदमेव सहेतुकं बृहद्भाष्ये
किं कारणं तु गणिणो, असारवेंतस्स होइ पच्छित्तं ? | कृति जेण गणहरो, विराहणाए उ गच्छस्सं ॥
हि पुण विराहणाए, गच्छस्स गणी उ वट्टती स खलु ? । भन्नइ सुणसु जह गणी, विराहओ होइ गच्छस्स ॥ जह सरणमुवगयाणं, जीवियववरोवणं णरो कुणइ | एवं सारणियाणं, आयरिओं असारओ गच्छे ॥ हि सरणमुवगया पुण?, पक्खे पक्खम्मि जं उवठ्ठेति । इच्छामि खमासमणो !, कतकितिकम्मा उ जं अम्हे ॥
अत आचार्यस्य सर्वमेतत् प्रायश्चित्तम् । अथवा यो भिक्षुरगीतार्थः अपिशब्दाद् गीतार्थो15 ऽपि विषयलोलः–सुखादुरसाखादलम्पटो भूत्वा प्रलम्बानि गृह्णाति तस्यैतत् प्रायश्चित्तम् । अत्र चाssचार्यविषया अष्टौ भङ्गाः - अगीतार्थ आचार्यो गच्छं न सारयति विषयलोलश्च १ अगीतार्थ आचार्यो गच्छं न सारयति विषयनिस्पृहश्च २ इत्यादि । अत्र चान्तिमो भङ्गः शुद्धः, शेषाः सप्त परित्यक्तव्याः ॥ ९३६ ॥ यत आह
देसो व सोवसग्गो, वसणी व जहा अजाणगनरिंदो । रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो ॥ ९३७ ॥
10
20
25
30
भङ्गसप्तकवर्ती आचार्यो देश इव सोपसर्गो व्यसनी वा यथा अज्ञायकनरेन्द्रः परित्यज्यते तथा परित्याज्यः । यथा च राज्ञा अचिन्त्यमानं राज्यं विलुप्तसारं भवति तथा गच्छोऽप्याचायेणाऽसार्यमाणो निस्सारो भवतीति परिहरणीय इति सङ्ग्रहगाथाक्षरार्थः ॥ ९३७ ॥
अथैनामेव विवरीषुः प्रथमतो "देसो व सोवसग्गो” इति पदं व्याचष्टे
ओमोदरिया य जहिं, असिवं च न तत्थ होइ गंतव्वं ।
उपपन्नें न वसियव्वं, एमेव गणी असारणीओ ॥ ९३८ ॥
यत्र देशेऽवमौदरिका अशिवं च उपलक्षणत्वाद् अपरोऽप्युपद्रवो भवति तत्र गन्तव्यं न भवति,
अथ तत्र देशे वसतामेवाऽवमौदर्यादिकमुत्पन्नं तत उत्पन्ने सति तत्र न वस्तव्यम्, एवमेव 'गणी' आचार्यः 'असारणिकः' गच्छसारणाविकलो नानुगन्तव्यः ॥ ९३८ ॥
अथ "वसणी व जहा अजाणगनरिंदो" ( गा० ९३७ ) ति व्याख्याति -
--
सत्तण्हं वसणाणं, अन्नयरजुतो न जाणई रजं ।
अंतेउरे व अच्छर, कजाइँ सयं न सीलेइ ।। ९३९ ॥
१ चिट्ठति येण त० डे० ॥