________________
माप्यगाथाः ९२९-३६ ]
प्रथम उद्देशः ।
२९५
रूपत्वात् । विरतिलक्षणं चरणं भणितम्, तच लक्षणं प्रलम्बानि गृह्णतो न विद्यते । ' तदभावे ' लक्षणाभावे ' तत्तु' तत् पुनश्चारित्रं नास्ति । वाशब्दः प्रकारान्तरद्योतकः ॥ ९३२ ॥
अथ "वीयाई " ( गा० ९३० ) इत्यादि व्याख्यायते - फलादू बीजं भवतीति कृत्वा बीज - ग्रहणम्, आदिशब्दात् फल- पुप्प - पत्र - प्रवाल- शाखा - त्वक्-स्कन्ध-कन्द-मूलानि गृह्यन्ते । शिष्यः प्राह —– सर्वेऽपि वनस्पतयस्तावद् मूलादय एव भवन्ति अतः “मूलाईपडिसेवग " इति कर्तु - 5 मुचितम् किमिति “बीयाईपडिसेवग " त्ति कृतम् ? सूरिराह
पाएण बीयभोई, चोयग ! पच्छाणुपुव्वि वा ऐवं ।
जोणिग्या व हतं, तदादि वा होइ वणकाओ ॥ ९३३ ॥
लोकः प्रायेण बीजभोजी, तेन कारणेन बीजमादौ कृतम् । यद्वा हे नोदक ! खसमये त्रिवि - धाऽऽनुपूर्वी प्ररूप्यते, तद्यथा- - पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च । त्रिविधाऽपि च यथावसरं 10 व्याख्याङ्गमित्यत्र पश्चानुपूर्वी गृहीता । अथवा बीजं वनस्पतीनां योनिः - उत्पत्तिस्थानम् अतस्तस्य घाते - विनाशे सर्वमपि मूलादिकं निरपेक्षतया हतं भवति । यदि वा तदादिर्वनस्पतिकायो भवति । तद् - बीजमादिर्यस्य स तदादिः, सर्वेषामपि वनस्पतीनां तत एव प्रसूतेः । अतो बीजादिग्रहणं कृतम् ॥ ९३३ ॥ ततश्च
विरइसभावं चरणं, बीयासेवी हु सेसघाती वि ।
अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव ॥ ९३४ ॥
यो बीजासेवी स नियमात् ' शेषाणां ' मूलादीनामपि घानी विज्ञेयः । यश्च मूलादीनि घात - यति तस्य विरतिस्वभावं यत् 'चरणं' चारित्रं तन्न भवति । यथा च बीजादिप्रतिसेवको लोकोऽसंयमेन स्पृष्टस्तथैवासावपि तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति ॥ ९३४ ॥
गता संयमविराधना । अथाऽऽत्मविराधनामाह -
तं चैव अभिहणेजा, आवडियं अहव जीहलोलुपता ( यया) । बहुगाई भुंजित्ता, विसूचिकाईहि आयवहो ।। ९३५ ॥
15
१ एणं सा० ॥ २ 'यति - कस्य 'एतत्' पूर्वोक्तं प्रायश्चित्तं भवति ? भा० । “कस्सेतं • गाधा । अह कस्सेतं पच्छित्तं ? उच्यते – गणिणो गच्छं असावेंतस्स” इति चूर्णिः ॥
20
तद् लगुडादिकं क्षिप्तं पुनरापतितं सत् 'तमेव' साधुमभिहन्यात् । इदं च प्रागुक्तमपि स्थानाशून्यामोपात्तमिति न पुनरुक्तदोषः । अथवा जिह्वालोलुपतया बहुकानि प्रलम्बानि भुक्त्वा विसू'चिकादिभिः आदिशब्दाद् ज्वरा - ऽतीसारादिभी रोगैरुत्पन्नैरात्मवधो भवति ॥ ९३५ ॥
उक्ताऽऽत्मविराधना । तदुक्तौ च व्याख्याता आज्ञादयश्चत्वारोऽपि दोषाः । अथ "क अगीयत्थे" ( गा० ८६२ ) ति पदं व्याचिख्यासुराह
कस्सेयं पच्छित्तं, गणिणो गच्छं असारविंतस्स ।
अवा वि अगीयत्थस्स भिक्खुणो विसयलोलस्स ।। ९३६ ॥ शिष्यः प्रश्नयेति – यद् 'एतद्' अन्यत्रग्रहणादावनेकधा प्रायश्चित्तमुक्तं तत् कस्य भवति ? | 30 सूरिराह – 'गणिनः ' आचार्यस्य गच्छम् असारयतः सतः । असारणा नाम अगवेषणा – कः
25