SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २९४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ इह प्रायः सर्वेऽपि प्राणिनः कर्मगुरुकतया दृष्टमात्रसुखाभिलाषिणः, न दीर्घसुखदर्शिनः, ततः सातलम्पटतया » 'एकेन' केनचिदाचार्यादिना किमपि 'अकार्य' प्रमादस्थानं 'कृतं' प्रतिसेवितं ततोऽन्योऽपि तत्प्रत्ययाद् ‘एष आचार्यादिः श्रुतधरोऽप्येवं करोति नूनं नास्त्यत्र दोषः' इति तदेवाकार्य करोति, ततोऽपरोऽपि तथैव करोति, तदन्योऽपि तथैव इत्येवं 'सातबहुलानां' सात5 गौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयम-तपसोर्व्यवच्छेदः प्राप्नोति । यद्धि संयमस्थानं तपःस्थानं वा पूर्वाचार्येण सातगौरवगृनुतया वर्जितं तत् पाश्चात्यैरदृष्टमिति कृत्वा व्यवच्छिन्नमेवेति ॥ ९२८ ॥ गतमनवस्थाद्वारम् । अथ मिथ्यात्वद्वारं विवृणोति मिच्छत्ते संकाई, जहेय मोसं तहेव सेसं पि।। मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं ॥ ९२९ ॥ 10 मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः । शङ्का नाम-किं मन्ये अमी यथावादिनस्तथाकारिणो न भवन्ति येन प्रलम्बानि गृह्णन्ति ?, आदिशब्दात् काडादयो दोषाः । तथा यथैतद् मृषा तथैव 'शेषम्' अन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिः स्यात् । मिथ्यात्वाद् वा चलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरणं भवति । अभ्युपगमं वा प्रव्रज्याया अणुव्रतानां सम्यग्दर्शनस्य वा कर्तुकामस्यापरः कश्चिद् वारणं कुर्यात्15 मा एतेषां समीपे प्रतिपद्यस्ख, 'असारं' निस्सारममीषां प्रवचनम् , मयेद चेद च दृष्टमिति ॥ ९२९ ॥ • गतं मिथ्यात्वद्वारम् । अथ विराधना, सा च द्विविधा-संयमे आत्मनि च । द्वे अपि प्रागेव सप्रपञ्चं भाविते, तथापि विशेषमुपदर्शयितुमाह तं काय परिचयई, नाणं तह दंसणं चरित्तं च । बीयाईपडिसेवग, लोगो जह तेहिं सो पुट्ठो॥ ९३० ॥ 20 प्रलम्बं गृह्णन् 'तं कायं' वनस्पतिलक्षणं परित्यजति, तथा ज्ञानं दर्शनं चारित्रं चेति । बीजादिप्रतिसेवको लोको यथा असंयमेन स्पृष्टस्तथा सोऽपि साधुस्तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति नियुक्तिगाथाक्षरार्थः ॥ ९३० ॥ अथैनामेव विवरीषुराह कायं परिच्चयंतो, सेसे काए वए वि सो चयई। __णाणे णाणुवदेसे, अवट्टमाणो उ अन्नाणी ॥ ९३१॥ 25 प्रलम्बानि गृहानो वनस्पतिकायं परित्यजति, तं च परित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्परित्यागे च प्रथमव्रतपरित्यागः, प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायत इति "नतान्यप्यसौ परित्यजति" इत्युक्तम् । तथा 'ज्ञाने' ज्ञानविषये परित्यागे चिन्त्यमाने ज्ञानोपदेशे क्रियाद्वारेणाऽवर्चमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः ॥ ९३१ ॥ ...... सण-चरणा मूढस्स नत्थि समया व नत्थि सम्मं तु । विरईलक्खण चरणं, तदभावे नत्थि वा तं तु ॥ ९३२॥ ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शन-चारित्रे न स्तः । यद्वा प्रलम्बग्रहणादस्य जीवेषु समता न विद्यते । समताया अभावाच सम्यक्त्वमपि नास्ति, तस्यापि सामायिकभेदतया समता १ एतचिहान्तर्गतः पाठः मो० ले पुस्तकयोरेव विद्यते ॥ 30
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy