________________
२९२
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ ततश्च
महजणजाणणया पुण, सिंघाडग-तिग-चउक्क-गामेसु ।
उड्डहिऊण विसजितें, महजणणाए ततो मूलं ॥ ९२२ ॥ तेन प्रलम्बखामिना गृहीत्वा शृङ्गाटक-त्रिक-चतुष्कस्थानेषु ग्रामेषु वा बहुषु नीत्वा महाजनस्य5 पौर-जानपदरूपस्य ज्ञापना कृता, यथा 'एतेन मदीयानि प्रलम्बानि चोरितानि' इत्यादि महाजनस्य पुरत उद्दह्य 'विसर्जितः' मुक्तः तत एवं महाजनज्ञाते सति मूलं नाम प्रायश्चित्तम् ॥ ९२२ ॥ कथमुद्दग्धः ? इत्याह
एस उ पलंबहारी, सहोढ गहिओ पलंबठाणेसु ।
सेसाण वि छाधाओ, सविहोढ विलंबिए होइ ॥ ९२३ ॥ 10 येनाऽऽरामाधिपतिना स प्रलम्बानि गृह्णानो गृहीतः स [तं] रासभारोपितं शृङ्गाटक-त्रिक-चतुप्कादिषु सर्वतः परिभ्रामयन्नेवमुद्घोषयति---'भो भोः पौराः ! श्रूयतामस्य प्रवजितकस्य दुश्चरितम्-एषः 'प्रलम्बहारी' मदीयारामसत्कप्रलम्बचौरः 'सहोढः' सलोप्तो गृहीतो मया दुरात्मा 'प्रलम्बस्थानेषु' आरामप्रदेशेषु इत्यादिघोषणापुरस्सरमितश्चेतश्च नीयमानो महाजनेन सखेद
मवलोक्यमानः खकृतेन कर्मणा विडम्ब्यते । ततश्च 'सविहोढं' सजुगुप्सनीयं यथा भवत्येवं 15 विडम्बिते तस्मिन् शेषाणामपि साधूनां 'छायाघातः' 'सर्वेऽप्यमी एवंविधा एव' इति प्रभापरिअंशो भवतीति ॥ ९२३ ॥
व्याख्यातमुड्डाहद्वारम् । तद्व्याख्याने च समर्थिता "अन्नत्थ-तत्थगहणे" (८६३ ) इत्यादिद्वारगाथा । अथ यदुक्तमधस्तात् “आणाऽणवत्थ मिच्छा, विराहणा कस्सऽगीयत्थे" (गा०
८६२) तदिदानी प्राप्तावसरं व्याख्यायते । तत्र आज्ञेति द्वारम्-भगवता प्रतिषिद्धं यत् 20 "प्रलम्बं न कल्पते" तद्ब्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति, तस्मॅिश्चाज्ञाभङ्गे चतुर्गुरुकाः । अत्र परः प्राह
__ अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किह णु ।
आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥ ९२४ ॥ 'अपराधे' चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्वं भणितः; तथाहि-अचित्ते प्रलम्बे 25 मासलघु, सचित्ते तु चतुर्लधु; इह पुनराज्ञाभङ्गे चतुर्गुरुकमिति गुरुतरो दण्डः 'कथं' कस्मात् ?, 'नुः' इति वितर्के; अपि च अपराधे जीवोपघातो दृश्यते तेन तत्र गुरुतरो दण्डो युक्तियुक्तः, आज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति । आचार्यः प्राह-आज्ञायामेवे भागवत्यां 'चरणं' चारित्रं व्यवस्थितम् , अतः 'तद्भङ्गे' तस्याः-आज्ञाया मैने 'किम् ?
इति परिप्रश्ने आचार्यः शिष्यं प्रश्नयति—किं तद् मूलोत्तरगुणादिकं वस्तु समस्ति यदाज्ञाभङ्गे 30 न भनम् ? अपि तु सर्वमपि भममिति, अत आज्ञायां गुरुतरो दण्ड उच्यते ॥ ९२४ ॥
१°घु इत्येतावदेव प्रायश्चित्तमुक्तम्, अतो लघुतर एव तत्र दण्डः; इह भा० ॥ २°व भगवतां तीर्थकृतां सम्बन्धिन्यां 'चरणं' भा० ॥ ३ भङ्गे किं तद् मूलोत्तरगुणादिकं वस्तु [यद्] न भन्नम् ? अपि तु त० डे० का० ॥