________________
भाष्यगाथाः ९१५ - २१]
प्रथम उद्देशः ।
मागगर
कुर्यात्, अथवा तं साधुमारोहन्तमेव यत् पातयेद् एषा सर्वाऽप्यात्मविराधना । पातितस्य च तस्याङ्गानि 'समवहन्यन्ते' भज्यन्त इत्यर्थः, तैरङ्गैर्हस्त पादादिभिः समवहतैर्यत्र भूमावसौ पतति तत्र षट् काया विराध्यन्ते । तेषां च सङ्घट्टनादिभिरारोपणा सैव द्रष्टव्या या "छक्काय चउसु लहुगा" इत्यादि ( ८७९ ) गाथायामुक्ता । आत्मविराधनायां च ग्लानविषया परितापनादिनिपन्ना या आरोपणा साऽपि प्राग्वदवसातव्या ॥ ९९७ ॥ गतमारोहणद्वारम् । अथ पतनद्वारमाह – 5 मरण- गिलाणाईया, जे दोसा होंति दूहमाणस्स ।
ते चैव य सारुवणा, पवडते होंति दोसा उ ।। ९१८ ॥
कदाचिदसौ तं वृक्षमारोहन् पतेत्, ततश्च मरण - ग्लानत्वादिका ये दोषा आरोहतो भवन्ति प्रपततोऽपि त एव दोषाः 'सारोपणाः' सप्रायश्चित्ता निरवशेषा वक्तव्याः । " पवडंते होंति सविसेसा” इति निशीथचूर्णिलिखितः पाठः, तत्रायमर्थः -- आरोहतो दोषाणां सम्भव एव भणितः, 10 पततः पुनरवश्यम्भाविनो गात्रभङ्गादयो दोषा इति सविशेषग्रहणम् ॥ ९९८ ॥
गतं पतनद्वारम् । अथोपधिद्वारं विवृणोति
तंमूल उवहिगहणं, पंतो साहूण कोइ सव्वेसिं ।
तण-अग्गिगहण परितावणा य गेलन पडिगमणं ।। ९१९ ।।
यस्य परिग्रहे तानि प्रलम्बानि सः 'तन्मूलं' प्रलम्बग्रहणनिमित्तं तस्यैव साधोरुपधिग्रहणं कुर्यात्, 15 यद्वा कश्चित् प्रान्तः सर्वेषां साधूनामुपधिं गृह्णीयात् । तत्र यथाजाते रजोहरणादिके उपधौ हृते मूलम्, शेषे पुनरुत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् । उपधिं विना तृणानि गृह्णीयात्, अग्रहणं वा कुर्यात्, अग्निं सेवेतेति भावः, अथाग्निं न सेवते ततः शीतेन परितापना तस्य भवेत्, शीतेन वा भुक्ते अजीर्यमाणे ग्लानत्वं भवेत्, शीताभिभूता वा साधवः पार्श्वस्थादिषु प्रतिगमनं कुर्युः ॥ ९९९ ॥ सम्प्रत्यत्रैव प्रायश्चित्तमाह
तणगहण अग्गिसेवण, लहुगा गेलन्ने होइ तं चैव । मूलं अणवटुप्पो, दुग तिग पारंचिओ होइ ।। ९२० ॥
अशुषिरतृणानि गृह्णाति मासलघु, शुषिरतृणानि गृह्णाति चतुर्लघु । परकृतममिं सेवते चतुर्लघु, अभिनवमग्निं जनयति मूलम्, अग्निशकटिकायां वा तापयन् यावतो वारान् हस्तं वा पादं वा सञ्चालयति तावन्ति चतुर्लघूनि । यस्तु धर्मश्रद्धालुरमिं न सेवते स शीतेन ग्लानः सञ्जायते, 25 ग्लानत्वे चानागाढपरितापनादौ तदेव प्रायश्चित्तम् । अथ शीतपरीषहमसहिष्णुः पार्श्वस्थादिषु जति चतुर्लघु, यथाच्छन्देषु व्रजति चतुर्गुरु । यद्येकोऽवधावते अन्यतीर्थिकेषु वा याति ततो मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम् ॥ ९२० ॥ गतमुपधिद्वारम् । अथोड्डाहद्वारं विवृणोति - अपरिग्गहिय पलंबे, अलभंतो समणजोगमुक्कधुरो |
रसगेही पडिबद्धो, इतरे गिण्हंतों गहिओ य ।। ९२१ ॥
"
30
अपरिगृहीतानि प्रलम्बान्यलभमानः 'श्रमणयोगमुक्तधुरः ' परित्यक्तश्रमणव्यापारभार इंति भावः, रसगृद्धिप्रतिबद्धः ‘इतराणि' परिगृहीतप्रलम्बानि गृह्णन् प्रलम्बखामिना दृष्ट्वा गृहीतः ॥ ९२९ ॥
१ गृह्णीयात् चतु त० ॥
20