________________
२९०
15
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ 'एवम्' एतेन प्रकारेण चतुर्वप्यप्राप्तादिपदेषु द्रव्यतः षण्णां कायानां विराधकः प्रतिपत्तव्यः । भावतस्तु 'इतरथाऽपि' द्रव्यतो विराधनां विनाऽप्यसौ षट्कायविराधको लभ्यते, संयमं प्रति निरपेक्षतया तस्य भावतः प्राणातिपातसद्भावात् । भावप्राणातिपातेन च यथा 'धन' निबिडं कर्म चीयते न तथा द्रव्यप्राणातिपातेन । आह यदुक्तं “पञ्चभिः क्रियाभिः स्पृष्टः” (गा० ९१०) 5 तत् कथं संवादमश्नुते ? यावता यदि न विराधयति तदा कायिकी आधिकरणिकी च क्रिये सम्भवतः पारितापनिक-प्राणातिपातिकक्रिययोस्तु कुतः सम्भवः ?, अथ विराधयति तदेताश्वतस्रोऽपि भवेयुः प्राद्वेषिकी पुनः कथं भवेत् । सूरिराह-क्रियाग्रहणं 'भयनिमित्तं' भयजननार्थ क्रियते, येन साधवः क्रियापञ्चकापत्तिदोषमीता मूलत एव प्रलम्बग्रहणे न प्रवर्तन्ते; यद्वा
दृष्टिवादनयाभिप्रायनैपुण्याद् यत्रैका क्रिया तत्र पञ्चापि क्रियाः सम्भवन्तीति न दोषः । 10 यदाह निशीथचूर्णिकद
अहवा जत्थ एगा किरिया तत्थ दिट्टिवायनयसुहुमत्तणतो पञ्च किरियाओ भवंति, अतो पंचकिरियम्गहणे न दोसो। [नि.भा. ४७७३ च.] ॥ ९१४ ॥
एवं तावत् संयमविराधना भाविता । अथाऽऽत्मविराधनां भावयति. कुवणय पत्थर लेट्ट, पुव्वच्छूढे फले व पवडते ।
पञ्चुप्फिडणे आया, अच्चायामे य हत्थाई ॥ ९१५ ॥ अन्येन केनचित् प्रलम्बार्थिना पूर्व "कुवणउ' त्ति लगुडः क्षिप्तः, स तत्रैव वृक्षशाखायां विलमः सन् वायुप्रयोगेण विवक्षितसाधुक्षिप्तकाष्ठादिप्रयोगेण वा सञ्चालितस्तस्यैव साधोरुपरि निपतन् विराधनां कुर्यात् । एवं 'प्रस्तरः' पाषाणः 'लेष्ठुः' इष्टकाशकलं मृत्तिकापिण्डो वा पूर्व
क्षिप्तः पतेत्, फलं वृन्तच्युतं वृक्षात् प्रपतेत् । तस्यैव काष्ठादेः प्रतिनिवृत्त्य स्खसम्मुखं प्रत्यास्फलने -20 आत्मविराधना भवेत् । 'अत्यायामेन च' अतीवहस्तसमुच्छ्यणेन काष्ठादौ क्षिप्यमाणे हस्तादेः परितापना भवेदिति ॥ ९१५ ॥ गतं क्षेपणाद्वारम् । अथाऽऽरोहणद्वारमाह
खिवणे वि अपावंतो, दुरुहइ तहिं कंट-विच्छ-अहिमाई। पक्खि-तरच्छाइवहो, देवयखेत्ताइकरणं च ॥९१६ ।। तत्थेव य निट्ठवणं, अंगेहिँ समोहएहिँ छक्काया ।।
आरोवण स च्चेव य, गिलाणपरितावणाईया ॥९१७ ॥ काष्ठादेः क्षेपणे कृतेऽपि यदा प्रलम्बानि न पतन्ति तदाऽधःस्थितस्तानि 'अप्रामुवन्' अलभमानस्तं वृक्षं "दुरुहइ" त्ति आरोहति । स च यावद्भिर्बाहुक्षेपकैरारोहति तावन्ति चतुर्लघुकानि, अनन्ते पुनश्चतुर्गुरुकाणि । 'तत्र' वृक्षे आरोहन् यत् कण्टकैर्विध्यते, यच्च वृश्चिकेनाऽहिना वा
आदिशब्दाद् नकुलादिना वा दश्यते, यच्च पक्षिभिः-श्येनादिभिः तरक्षादिभिश्च-आटव्यजीवैर्वधो 30 भवति, यया वा देवतया अधिष्ठितोऽसौ वृक्षस्तया यदसौ साधुः क्षिप्तचित्तः क्रियते, आदिग्रहणेनापरया कयाचिद् विडम्बनया विडम्ब्यते ॥ ९१६ ॥
यद्वा सा देवता खाधिष्ठितवृक्षारोहणकुपिता तत्रैव 'निष्ठापनम्' आयुषः समापनं तस्य यत् १ यदि निवारयति त. डे० कां० ॥