________________
भाष्यगाथाः ९०७-१४ ]
प्रथम उद्देशः ।
२८९
काष्ठादिकं क्षिपन् 'तं कायं' वनस्पतिलक्षणं नियमादेव परित्यजति । स च लगुडादिरुर्द्धं क्षिप्तः शाखादौ प्रतिस्खल्य निवृत्तस्तस्यैव शरीराभिमुखमापतति, तस्यापतने आत्मानं च परित्यजतीति ॥ ९१० ॥ कथं पुनः पृथिव्यादिकायानां विराधको भवति ? इत्युच्यते----
पावंते पत्तम्मिय, पुणोपडंते अ भूमिपत्ते अ ।
रय-वास - विजयाई, वाय-फले मच्छिगाइ तसे ॥ ९११ ॥
5
तत् काष्ठादिकं हस्तात् च्युतं सद् यावद् वृक्षेनाssस्फलति तावत् प्राप्नुवद् भण्यते तस्मिन् प्रामुवति, तथा वृक्षं प्राप्ते पुनःपतति च भूमिप्राप्ते च षट्कायविराधना ज्ञातव्या । कथम् ? चेद् इत्याह – “रय” इत्यादि । आदिशब्दः प्रत्येकं सम्बध्यते, ततश्च रजःप्रभृतिकं पृथिवीकायं वर्षोदकादिकमप्कायं विद्युदादिकं तेजःकायं 'वातं च' तत्रैव वातं फलानि तस्यैव वृक्षस्य सत्कानि उपलक्षणत्वात् पत्रादीन्यपि मक्षिकादींश्च त्रसान् विराधयति ॥ ९९९ ॥ इदमेव स्पष्टयन्नाह - खोल तयाई रओ, महि-वासोस्साइ अग्गि दरदडे | तत्थेवऽनिल वणस्सइ, तसा उ किमि - कीड - सउणाई ।। ९१२ ।।
10
"
“खोल्लं" ति देशीशब्दत्वात् कोटरम् त्वक् प्रतीता, तदादिषु स्थानेषु वृक्षे रजः सम्भवेत् ततः पृथिवीकायविराधना । महिकायां निपतन्त्यां वर्षे अवश्याये वा निपतति आदिग्रहणेन हरतनुकादिसम्भवेऽप्कायविराधना । वनदवादिना दरदग्धे वृक्षे उपलक्षणत्वाद् विद्युति वाऽग्निकाय - 15 विराधना । तत्रैवाभौ नियमाद् 'अनिल' वायुः सम्भवतीति वायुकायविराधना । वनस्पतिः स एव प्रलम्बलक्षणः पत्र-पुष्पादिर्वा । त्रसास्तु कृमि - कीट- शकुनादिका विराध्यन्ते । कृमयः - विष्ठादिसमुद्भवाः, कीटकाः- धुणादयः, शकुनाः - काक - कपोतादयः, आदिग्रहणेन सरटादिपरिग्रहः । एवं वृक्षमप्राप्ते काष्ठादौ षट्कायविराधना । एवमेव प्राप्ते पुनः पतति भूमिप्राप्तेऽपि ज्ञातव्यम् ॥ ९१२ ॥
20
यत आह---
अप्पत्ते जो उगमो, सो चेव गमो पुणोपडंतम्मि ।
सो चैव य पडियम्मि वि, निकंपे चेव भोमाई ॥ ९१३ ।।
एवाप्राप्ते 'गमः' प्रकारः स एव गमः पुनः पतति उपलक्षणत्वात् प्राप्तेऽपि, भूयो गमशब्दोच्चारणं षट्कायविराधनां प्रतीत्याऽऽत्यन्तिकतुल्यताख्यापनार्थम् स एव भूमौ पतितेऽपि काष्ठादौ प्रकारः प्रतिपत्तव्यः । केवलं "निक्कंपे चेव भोमाइ" त्ति तत् काष्ठादिकं महता भारगौ-25 रवेण ‘निष्कम्पं’ निस्सहं पृथिव्यां यद् निपतति तेन 'भौमादीनां' पृथिव्यादीनां महती विराधनेति चूर्णिकृदभिप्रायः । निशीथचूर्णिकाराभिप्रायेण तु “निकंपे चेव भूमीए” इति पाठः व्याख्या - यस्यां भूमौ स्थितः काष्ठादिक्षेपणाय विशिष्टं स्थानबन्धमध्यास्ते तत्रापि पादयोर्निष्कम्पत्वेन षण्णां कायानां विराधको भवति ॥ ९९३ ॥
अस्य
एवं दव्वतों छण्हं, विराधओ भावओ उ इहरा वि ।
चिज हु घणं कम्मं, किरियरगहणं भयनिमित्तं ॥ ९१४ ॥
१ “णिकंपे चेव भोमादि" त्ति जत्थ तं कट्ठादि णिकंपेणं ति णिज्जामेण पडति तत्थ भोमादि छक्कायां बिराधेज्जा, एवं तं कातं परिचयति" इति चूर्णिः ॥
30