________________
२८८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ कुलशब्देन गृहीतम् । एतेषां परिग्रहे वर्तमानादारामात् प्रलम्बानि गृहृतो यथाक्रमं प्रायश्चित्तं चतुर्लघु १ चतुर्गुरु २ षड्लघु ३ षड्गुरु ४ छेदः ५ मूलं ६ अनवस्थाप्यं ७ पाराश्चिकम् ८ । अत्रापि त एव 'भद्रेतराः' भद्रक-प्रान्तकृता अनुग्रह-प्रतिषेधादयो दोषा वक्तव्याः । एतत् सर्वमयाचिते प्रलम्बे द्रष्टव्यम् । याचिते तु ग्रहणा-ऽऽकर्षणादिदोषान् विना शेषमिति ॥ ९०६ ॥ 5 एतावता वृक्षस्याधःप्रपतितमचित्तं व्याख्यातम् । अथ सचित्तादिद्वारचतुष्टयमभिधित्सुराह
एमेव य सचित्ते, छुमणा आरोहणा य पडणा य ।
जं इत्थं नाणतं, तमहं वोच्छं समासेणं ॥ ९०७॥ यथा अचित्ते "दिढे संका भोइय" (गा० ८६६) इत आरभ्य "आराम मोल्लकीए" (गा० ९०६) इति पर्यन्तं भणितम् एवमेव सचित्तेऽपि द्रष्टव्यम् । प्रक्षेपणमारोहणं पतनमित्येतान्यपि 10 द्वाराणि तथैव वक्तव्यानि । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन ॥ ९०७ ॥ तत्र सचित्ते तावद् विशेषमाह
तं सच्चित्तं दुविहं, पडियाऽपडियं पुणो परित्तियरं ।
पडितऽसति अपावंते, छुभई कट्ठाइए उवरिं ॥९०८॥ तत् पुनः सचित्तं द्विविधम्-पतितमपतितं च । पुनरेकैकं द्विधा-'परीत्तं' प्रत्येकम् 'इत15 रद्' अनन्तं च । तत्र पतितस्य 'असति' अभावे वृक्षप्रतिष्ठितेऽपि हस्तादिना अप्राप्यमाणे ततः प्रलम्बपातनार्थ काष्ठादीन्युपरि क्षिपति ॥ ९०८॥ तत्र यद् वृक्षोपरिस्थितं भूमिस्थितो हस्तेन गृह्णाति तत्र प्रायश्चित्तमाह
सजियपयट्टिएँ लहुगो, सजिए लहुगा य जत्तिया गाहा ।
गुरुगा होति अणंते, हत्थप्पत्तं तु गेण्हते ॥ ९०९॥ 20 सजीववृक्षप्रतिष्ठितमचित्तफलं गृह्णाति मासलघु । अत्र च यावतो ग्राहान् करोति तावन्ति मासलघुकानि । अथ सजीवं सचित्तवृक्षप्रतिष्ठितं गृह्णाति चतुर्लघु, सच्चित्तप्रतिष्ठितप्रत्ययं च मासलघु, तत्रापि यावतो ग्राहान् करोति तावन्ति चतुर्लघूनि मासलघूनि च । एतत् प्रत्येके भणितम् । अनन्ते पुनरेतान्येव प्रायश्चित्तानि 'गुरुकाणि' मासगुरु-चतुर्गुरुखरूपाणि भवन्ति । एवं भूमिस्थितस्य वृक्षस्थितं हस्तप्राप्तं प्रलम्बं गृह्णतः प्रायश्चित्तमुक्तम् ॥९०९॥ 25 अथ यदुक्तम् "छुभई कट्ठाइए उवरिं" (गा० ९०८) ति तदेतद् विवरीषुराह
छुभमाण पंचकिरिए, पुढवीमाई तसेसु तिसु चरिमं ।
तं काय परिचयई, आवडणे अप्पगं चेव ॥ ९१० ॥ प्रलम्बपातनाथ काष्ठ-लेष्ठु-शुष्कगोमयादिकं गवेषयति चतुर्लघु । काष्ठादिकं लब्ध्वा वृक्षाभिमुखं क्षिपति चतुर्लघव एव । स च क्षिपन्नेव 'पञ्चक्रियः' पञ्चभिः क्रियाभिः स्पृष्टः, तद्यथा30 कायिक्या १ आधिकरणिक्या २ प्राद्वेषिक्या ३ पारितापनिक्या ४ प्राणातिपातक्रियया ५ चेति । पृथिव्यादिषु च जीवेषु सङ्घटना-परितापना-ऽपद्रावणैर्ल घुमासादिकं प्रायश्चित्तं यथास्थानं ज्ञातव्यम् । "तसेसु तिसु चरिमं" ति त्रिषु पञ्चेन्द्रियरूपेषु त्रसेषु व्यपरोपितेषु 'चरमं' पाराञ्चिकम् । तथा
१ "पुढविकायादिसु तसावसाणेसु जीवेसु संघट्टणाए परियावणाए उद्दवणाए एतेसु तिसु ठाणेसु मासादी आढत्तं चरिमं पावति” इति चूर्णिकाराः ॥