________________
प्रथम उद्देशः ।
तणगहणे सिरेतर, अग्गी सट्ठाण अभिनवे जं च । एसपेल्लण गहणे, काया सुत मरण ओहाणे ॥ ९०३ ॥
वर्षाकल्पादावुपकरणे हृते शीतभिभूतास्तृणानि गृह्णन्ति - सेवन्ते । तत्र शुषिरतृणसेवने चतुलघु, अशुषिरतृणसेवने मासलघु । अग्निं सेवन्ते तत्र स्वस्थानप्रायश्चित्तम्, चतुर्लघु इत्यर्थः अथाभिनवमग्निं जनयन्ति मूलम्, यच्चाग्निसमारम्भेऽन्येषां जीवानां विराधनं तन्निष्पन्नमपि प्राय-5 श्चित्तम् । अथोपकरणाभावे उद्गमादिदोषदुष्टं वस्त्रादि गृह्णन्त एषणां प्रेरयन्ति ततस्तन्निप्पन्नम् ; “गहणे” त्ति शीतादिभिः परिताप्यमाना गृहस्थैरदैत्तमपि वस्त्रादि गृह्णीयुस्तन्निप्पन्नम् । निशीथचूर्णिकृता तु "गमणे" त्ति पाठो गृहीतः, तत्र चोपधिं विना शीतादिपरीषहमविषहमाणो यद्यन्यतीर्थिकेष्वेकः साधुर्गच्छति मूलम्, द्वयोर्गच्छतोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम् । “काय” त्ति अग्निं सेवमाना एषणां प्रेरयन्तो वा यत् पृथिव्यादिकायान् विराधयन्ति तन्निष्पन्नम् । 10 “सुत" त्ति 'श्रुतं' सूत्रं तस्य पौरुषीं न कुर्वन्ति, उपलक्षणत्वाद् अर्थपौरुषीं न कुर्वन्ति सूत्रं नाशयन्ति अर्थ नाशयन्ति तन्निप्पन्नम् । "मरण" त्ति उपकरणं विना यद्येकोऽपि म्रियते तथापि पाराञ्चिकम्, “ओहाण" त्ति यद्येकः साधुरवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराञ्चिकम् ॥ ९०३ ॥ अथ ग्रहणाकर्षणादिरूपं षष्ठं प्रकारं भावयति
भाप्यगाथाः ८९९-९०६ ]
२८७
गेहण गुरुगा छम्मास कढणे छेदों होइ ववहारे । पच्छाकडम्मि मूलं, उड्डहण विरंगणे नवमं ।। ९०४ ॥ उद्दवणे निव्विसए, एगमणेगे पदोस पारंची । अवटुप्पो दोसु य, दोसु य पारंचिओ होइ ॥ ९०५ ॥ लम्बानि गृह्णानो यदि प्रलम्बखामिना दृष्ट्वा गृहीतस्ततो ग्रहणे चतुर्गुरुकाः । अथ तेनोपकरणे हस्ते वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे षण्मासा गुरवः । अथ कारणिकानां 20 समीपे व्यवहारं कारयितुमारब्धः ततश्छेदः । व्यवहारे विधीयमाने यदि पश्चात्कृतः' पराजितस्ततो मूलम् । अथ चतुष्क- चत्वरादिषु 'एष प्रलम्बचौरः' इतिघोषणापुरस्सरमुद्दग्धः हस्त-पादादौ वा अवयवे व्यङ्गितस्तत एवमुद्दहने “विरुंगणे" त्ति व्यङ्गने वा 'नवमम्' अनवस्थाप्यम् ॥ ९०४ ॥
अथान्यायोदीर्णकोपानलेन राजादिना अपद्रावितो निर्विषयो वा आज्ञप्तस्ततोऽपद्रावणे निर्विषये वा कृते पाराञ्चिकम् । अथवा एकस्यानेकेषां वा साधूनामुपरि प्रद्वेषं यदि व्रजति तदा पाराञ्चि - 25 कम् । अत्र च 'द्वयोः' उद्दहन-व्यङ्गनयोरनवस्थाप्यो भवति, 'द्वयोश्व' अपद्रावण-निर्विषययोः पाराचिक इति ॥ ९०५ ॥ अथ परिग्रहविशेषेण प्रायश्चित्तविशेषमाह -
आराम मोल्लकीए, परतित्थिय भोइएण गामेण ।
वणि-घड-कुटुंबि-राउलपरिग्गहे चैव भद्दितरा ॥ ९०६ ॥
sssरामः कश्चिदादित एवाऽऽत्मीयो वा भवेद् मूल्येन क्रीतो वा । यो मूल्येन क्रीतः स 30 केन क्रीतो भवेत् ? उच्यते - परतीर्थिकेन वा १ भोगिकेन वा २ ग्रामेण वा ३ वणिजा वा ४ घट्या वा गोष्ठ्येत्यर्थः ५ कौटुम्बिकेन वा ६ आरक्षिकेण वा ७ राज्ञा वा ८ एतद् द्वयमपि राज -
१ 'तादिभिरभिभू° मो० ले० ॥ २ 'हने (ने) षणां प्रेरयति भा० ॥ ३ 'दत्तानि वस्त्रादीनि गृह तनि भा० ॥ ४ °यन्तो यावत् पृ' त०डे० कां० ॥
15