SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २८६ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ आमफलाणि न कप्पंति तुम्ह मा सेसए वि दूसेहिं । मा य सकजे मुज्झसु, एमाई होउवालंभो ॥ ८९९ ॥ आमफलानि युष्माकं ग्रहीतुं न कल्पन्ते, अतः शेषानपि साधून 'मा दूषय' निजदुश्चरितेन मा कलङ्कितान् कुरु, मा च 'स्वकार्ये' निरवद्यप्रवृत्त्यात्मके चारित्रे मुहः, एवमादिकः सपिपास5 शिक्षारूप उपालम्भो भवति ॥ ८९९ ॥ प्रान्तापनोपधिहरणे भावयति कर-पाय-दंडमाइसु, पंतावणगाढमाइ जा चरिमं । अप्पो अ अहाजाओ, सव्वो दुविहो विजं च विणा ॥ ९००॥ कर-पाद-दण्डादिभिः आदिशब्दाद् लतादिभिश्च ताडनं प्रान्तापना । तस्यां चानागाढपरि10 तापादिषु 'चरमं पाराञ्चिकं यावत् प्रायश्चित्तम् । अल्पं वा बहुं वा स उपधिं हरेत् । अल्पो नाम यथाजातः, निषद्याद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टकश्चेत्यर्थः । बहुः पुनः ‘सर्वः' चतुदेशविध उपधिः । अथवा 'द्विविधः' औधिकौपग्रहिकरूपः । यच्च तृणग्रहणादिकमुपधिं विना भवेत् तन्निप्पन्नं प्रायश्चित्तम् ॥ ९०० ॥ सम्प्रत्यनुग्रहादिपदेषु प्रायश्चित्तमाह लहुगा अणुग्गहम्मी, अप्पत्तिय गुरुग तीस ठाणेसु । पंतावणे चउगुरुगा, अप्प बहुम्मी हिए मूलं ॥९०१ ॥ यस्य सम्बन्धी स आरामः स यदि चिन्तयति 'अनुग्रहो मे यद् मदीयानि प्रलम्बानि साधवो गृह्णन्ति' इत्यनुग्रहे मन्यमाने चतुर्लघवः । अथाप्रीतिकं करोति तूष्णीकश्च तिष्ठति ततश्चतुर्गुरुकाः । अथाप्रीतिकवशात् प्रतिषेधं खरण्टनामुपालम्भं वा कुर्यात् ततस्त्रिप्वपि स्थानेषु प्रत्येकं चतुर्गुरवः । प्रान्तापनेऽपि चतुर्गुरुकाः । अल्पे वा बही वा उपधौ हृते मूलम् । यद्वोपधिनिप्पन्नम् , तद्यथा-- 20 उत्कृष्ट उपधौ चतुर्लघवः, मध्यमे मासलघु, जघन्ये रात्रिन्दिवपञ्चकम् । आह कथमेकत्रैव मूलम् ? उपधिनिप्पन्नं वा ? उच्यते-प्रमादतः प्रलम्बानि गृह्णत उपधिहरणे उपधिनिष्पन्नम् , दर्पतस्तु प्रलम्बानि गृह्णानस्योपकरणापहारे मूलम् ॥ ९०१ ॥ अथ “पंतावणगाढमाइ चरिमं पि (जा चरिमं)" (गा० ९००) पदं व्याचष्टे परितावणाइ पोरिसि, ठवणा महय मुच्छ किच्छ कालगए । मास चउ छच्च लहु गुरु, छेओ मूलं तह दुगं च ॥९०२ ॥ प्रान्तापितस्य सतोऽनागाढा परितापना भवति चतुर्लघु, आगाढा भवति चतुर्गुरु, परितापनाभिभूतः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, प्राशुकं स्थापयति चतुर्लघु, अप्राशुकं स्थापयति चतुर्गुरु, प्रत्ये कस्थापने चतुर्लधु, अनन्तस्थापने चतुर्गुरु इत्यादि प्राग्वद् वक्तव्यम् । “महय" त्ति महादुःखे षड्30 लघु, मूर्छाय षड्गुरु, कृच्छ्रमाणे च्छेदः, कृच्छ्रोच्छासे मूलम् , समवहतेऽनवस्थाप्यम् , कालगते पाराञ्चिकम् ।। २०२ ॥ अथ “यच्च तृणग्रहणादिकमुपधिना विना भवेत्” (गा० ९००) इति पदं विवृणोति १ प्रतापना मो. ले० ॥ 25
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy