________________
२८४
15
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ यथैवान्यत्रग्रहणेऽरण्यविषयं षोडशभङ्गरचनया गमनम् आदिशब्दात् संयमा-ऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं च 'एतद्' अनन्तरमेव वर्णितं 'तत्रग्रहणेऽपि' विवक्षितप्रलम्बाधारभूतवृक्षस्याधःपतितं यदचित्तं प्रलम्बं तद् गृह्णानस्याप्येवमेव निरवशेषं वर्णनीयं यावत् श्रमणीभिः सह गमनमिति ॥ ८९० ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह----
तत्थग्गहणं दुविहं, परिग्गहमपरिग्गहं दुविहभेयं ।
दिट्ठादपरिग्गहिए, परिगहिएँ अणुग्गहं कोइ ॥ ८९१ ॥ तत्रग्रहणं द्विविधम् , तद्यथा--सपरिग्रहमपरिग्रहं च । यद् देवतादिभिः परिगृहीतं वृक्षादि तद्विषयं सपरिग्रहम् , तद्विपरीतमपरिग्रहम् । तदुभयमपि 'द्विविधभेदं' द्विविधेन-सचित्ता-ऽचित्त
भेदद्वयेन भेदः-पार्थक्यं यस्य तद् द्विविधभेदम् , सचित्ता-ऽचित्तभेदभिन्नमिति भावः । 10 तत्र यदपरिगृहीतमचित्तं तद् गृह्णानस्य "दिट्ठाइ" त्ति "दिट्टे संका भोइय" (गा० ८६६) इत्यादिका आरोपणा सर्वाऽपि प्राग्वद् द्रष्टव्या । यत् पुनः परिगृहीतमचित्तं तद् गृह्णतः कश्चिद् भद्रकः परिग्रहीता अनुग्रहं मन्येत । एतदग्रतो भावयिष्यते (गा० ८९५) ॥ ८९१ ॥ अर्थ सपरिग्रहस्यैव खरूपं निरूपयति
तिविह परिग्गह दिव्बे, चउलहु चउगुरुग छल्लहुकोसे ।
__ अहवा छल्लहुग चिय, अंत गुरू तिविह दिव्यम्मि ।। ८९२ ॥ सपरिग्रहं त्रिविधम् , तद्यथा-देवपरिगृहीतं मनुष्यपरिगृहीतं तिर्यकारिगृहीतं [च] । तत्र यद् दिव्यं-देवपरिगृहीतं तद् त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । व्यन्तरपरिगृहीतं जघन्यम् , भवनपति-ज्योतिष्कपरिगृहीतं मध्यमम् , वैमानिकपरिगृहीतमुत्कृष्टम् । तत्र जघन्यपरिगृहीतं प्रलम्ब गृह्णाति चत्वारो लघवः, मध्यमपरिगृहीतं गृह्णाति चत्वारो गुरवः, उत्कृष्टपरिगृहीतं गृह्णाति षड् 20 लघवः । अथवा त्रिष्वपि जघन्य-मध्यमोत्कृष्टेषु षड् लघव एव प्रायश्चित्तम् , केवलं तपः-कालविशेषितम्-जघन्ये तपोलघु कालगुरुकम् , मध्यमे काललघु तपोगुरुकम् , 'अन्त्ये च' उत्कृष्ट द्वाभ्यामपि गुरुकं कर्त्तव्यमिति त्रिविधदिव्यविषयं प्रायश्चित्तम् ॥ ८९२ ।। गतं देवपरिगृहीतम् । अथ मनुष्यपरिगृहीतमाह
सम्मेतर सम्म दुहा, सम्मे लिंगि लहु गुरुओं गिहिएसुं । मिच्छा लिंगि गिही वा, पागय-लिंगीसु चउलहुगा ॥ ८९३ ॥
गुरुगा पुण कोडुबे, छल्लहुगा होंति दंडियारामे ।। मनुष्यपरिगृहीतं द्विधा-सम्यग्दृष्टिपरिगृहीतं "इयर" त्ति मिथ्यादृष्टिपरिगृहीतं च । तत्र यत् सम्यग्दृष्टिपरिगृहीतं तद् द्विधा-पार्श्वस्थादिलिङ्गस्थपरिगृहीतं गृहस्थपरिगृहीतं च । लिङ्गस्थपरि
गृहीते मासलघु, गृहिभिः सम्यग्दृष्टिभिः परिगृहीते मासगुरु । यत् पुनर्मिथ्यादृष्टिपरिग्रहीतं तद 30 द्विविधम् --"लिंगि" त्ति अन्यपाषण्डिपरिगृहीतं गृहस्थपरिगृहीतं च । तत्र गृहस्थपरिगृहीतं
१ धमेद्वाभ्यां विधाभ्यां-सच्चित्ता-ऽचित्तरूपाभ्यां भेदः भा०॥ २°मांचत्तं पचित्तं वा तद भा० ॥ ३व्या । नवरं सचित्ते कायप्रायश्चित्तम् । तत्र प्रत्येकसञ्चित्ते चतुर्लघु, अनन्तसचित्ते चतुर्गुरु । यत् पुनः परिगृहीतं सच्चित्तमचित्त वा तत्र कश्चिद् भा० ॥