________________
भाष्यगाथाः ८८३-९०] प्रथम उद्देशः ।
२८३ संविग्गाऽसंविग्गा, गीया ते चेव होंति अग्गीया ।
लहुगा दोहि विसिट्ठा, तेहिं समं रत्ति गुरुगा उ ॥ ८८६ ॥ संविमा गीतार्थाः, असंविग्ना गीतार्थाः, संविग्ना अगीतार्थाः, असंविना अगीतार्थाः; एतैः समं गच्छतः 'द्वाभ्यां' तपः-कालाभ्यां विशिष्टा लघुकाः प्रायश्चित्तम् । तद्यथा-संविनीताथैः समं व्रजति चत्वारो लघवस्तपसा कालेन च लघुकाः, असंविग्नैर्गीतार्थैः समं गच्छति चतुर्लघवः । तपसा लघुकाः कालेन गुरुकाः, संविग्नैरगीतार्थेः सार्द्ध याति चतुर्लघु कालेन लघु तपसा गुरु, असंविगैरगीतार्थैः समं ब्रजति चतुर्लघु तपसा कालेन च गुरु । एतद् दिवसतो ज्ञातव्यम् । रात्रौ तैः समं व्रजतः एवमेव तपः-कालविशेषिताश्चतुर्गुरुकाः ॥ ८८६ ॥
अस्संजय-लिंगीहिँ उ, पुरिसागिइपंडएहिँ य दिवा उ ।
अस्सोय सोय छल्लहु, ते चेव उ रत्ति गुरुगा उ ॥ ८८७॥ 10 असंयता द्विविधाः-गृहिणो लिङ्गिनश्च । लिङ्गमेषां विद्यत इति लिङ्गिनः-अन्यपाषण्डिन इत्यर्थः । तथा पुरुषाकृतयः-पुरुषनेपथ्यधारिणः पण्डकाः । एते त्रयोऽपि प्रत्येकं द्विविधाःशौचवादिनोऽशौचवादिनश्च । तत्राशौचवादिभिर्गृहिभिः समं व्रजति षड्लघु उभयलघुकम् , शौचवादिभिः समं व्रजति षड्लघु कालगुरुकम् । अन्यलिङ्गिभिरशौचवादिभिः सार्द्ध ब्रजति षड्लघु कालगुरुकम् , शौचवादिभिः समं व्रजति षड्लघु तपोगुरुकम् । पुरुषाकृतिभिः पण्डकैरशौच-16 वादिभिः समं ब्रजति षड्लघु तपोगुरुकम् , शौचवादिभिः समं व्रजति षड्लघु तपसा कालेन च गुरुकम् । एतद् दिवसतः प्रायश्चित्तमुक्तम् । रात्रौ तु ‘त एव' षण्मासाः गुरुकाः, षड् गुरवस्तपःकालविशेषिता एवमेव दातव्या इति भावः ॥ ८८७ ॥
पासंडिणित्थि पंडे, इत्थीवेसेसु दिवसतो छेदो।
तेहिं चिय निसि मूलं, दिय-रत्ति दुगं तु समणीहि ॥ ८८८॥ 20 तापसी-परित्राजिकादिभिः पापण्डिनीभिः "इत्थि" त्ति गृहस्थस्त्रीभिः स्त्रीवेषधारिभिश्च पण्डकैरशौचवादिभिः सह दिवसतो गच्छतो लघुकश्छेदः शौचवादिभिः सह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो मूलम् । श्रमणीभिः समं दिवा गच्छतोऽनवस्थाप्यम् । रात्रौ श्रमणीभिः सह गच्छति पाराञ्चिकम् ॥ ८८८ ॥ प्रकारान्तरेणात्रैव प्रायश्चित्तमाह___अहवा समणा-ऽसंजय-अस्संजइ-संजईहिँ दियराओ।
25 चत्तारि छच्च लहु गुरु, छेओ मूलं तह दुगं च ॥ ८८९ ॥ 'अथवा' इति प्रकारान्तरद्योतने । 'श्रमणाः' संयतास्तैः सार्द्ध दिवा गच्छति चतुर्लघु, रात्रौ गच्छति चतुर्गुरु । असंयतैः सार्द्ध दिवा गच्छति षड्लघु, रात्रौ गच्छति षड्गुरु । असंयतीभिः समं दिवा व्रजति च्छेदः, रात्रौ गच्छति मूलम् । संयतीभिः सह दिवसतो गच्छति अनवस्थाप्यम् , रात्रौ गच्छति पाराञ्चिकम् ॥ ८८९ ॥ तदेवमुक्तमटवीविषयं ग्रहणम् । तदुक्तौ चावसित-30 मन्यत्रग्रहणम् । अथ तत्रग्रहणं बिभावयिषुरुक्तार्थसदृशं विधिमतिदिशन्नाह
जह चेव अन्नगहणेऽरण्णे गमणाइ वणियं एयं । तत्थगहणे वि एवं, पडियं जं होइ अचित्तं ॥ ८९० ॥