________________
२८२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १. व्यालेन-सर्पादिना अच्छभल्लेन वा-ऋक्षेण कोलेन वा-महाशूकरेण सिंहेन वा वृकेण वा वराहेण वा उपद्रूयेत, म्लेच्छः पुरुषः प्रान्ततया प्रहारादिकं दद्यात् , स्त्री वा तं साधुमुपसर्गयेत् , अथवा म्लेच्छस्त्री-पुलिन्दीप्रभृतिका तमुपसर्गयेत्, तन्निमित्तं म्लेच्छः कुपितो वध-बन्धादि कुर्यात्॥८८१ ॥ 5 स्तेनो द्विविधः-शरीरस्तेन उपधिस्तेनश्च, तेनोपद्रवः क्रियेत, देवता वा प्रान्ता तं साधु प्रमत्तं दृष्ट्वा च्छलयेत् , अपरो वा कोऽपि प्रत्यनीको मनुष्यो विजनमरण्यं मत्वा मारणादि कुर्यात् , एवमादिका आत्मनि विराधना भवति । तत्रेदं प्रायश्चित्तम्-- “मास चउ' इत्यादि पश्चार्द्धम् । कण्टकादिभिरनागाढं परिताप्यते चतुर्लघु, आगाढं परिताप्यते चतुर्गुरु, अथ महादुःखमुत्पद्यते ततः षड्लघु, मूर्छामूळे षड्गुरु, कृच्छ्रमाणे च्छेदः, कृच्छोच्छासे मूलम् , मारणान्तिकसमुद्धातेऽ10 नवस्थाप्यम् , कालगते पाराञ्चिकम् ।।८८२॥ अथाऽऽत्मविराधनायामेव सामान्यतः प्रायश्चित्तमाह
कंट-ट्टिमाइएहिं, दिवसतों सव्वत्थ चउगुरू होति ।
रतिं पुण कालगुरू, जत्थ व अन्नत्थ आयवहो ॥ ८८३ ॥ कण्टका-ऽस्थिकादिभिः परितापनायां सर्वत्र दिवसतश्चतुर्गुरवो भवन्ति । रात्रौ पुनस्त एव चतुर्गुरवः कालगुरवो ज्ञातव्याः । अन्यत्रापि यत्र 'आत्मवधः' आत्मविराधना भवति तत्र सर्वत्रापि 15 चतुर्गुरवः प्रायश्चित्तम् ॥ ८८३ ॥ तथा
पोरिसिनासण परिताव ठावणं तेण देह उवहिगतं ।
पंतादेवयछलणं, मणुस्सपडिणीयवहणं च ॥ ८८४ ॥ कण्टकादिना पीडितः सन् सूत्रपौरुषीं न करोति मासलघु, अर्थपौरुषीं न करोति मासगुरु, सूत्रं नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु । “परिताव" त्ति अनागाढपरितापे चतुर्लघु, 20 आगाढपरितापे चतुर्गुरु । "ठावण" त्ति अनाहारं स्थापयति चतुर्लघु, आहारं स्थापयति चतुर्गुरु, परीत्तं स्थापयति चतुर्लघु, अनन्तं स्थापयति चतुर्गुरु, अस्नेहं स्थापयति चतुर्लघु, सस्नेहं स्थापयति चतुर्गुरु । तथा "तेण" ति उपधिस्तेनाः, तैः उपधौ ह्रियमाणे उपधिगतं जघन्यमध्यमोस्कृष्टोपधिनिष्पन्नं प्रायश्चित्तम् । “देह" त्ति देहस्तेनाः-शरीरापहारिणस्तैरेकः साधुः ह्रियते मूलम् ,
द्वयोहियमाणयोरनवस्थाप्यम् , त्रिषु ह्रियमाणेषु पाराञ्चिकम् । प्रान्तया देवतया यदि च्छलनं 25 क्रियते ततश्चतुर्गुरु । प्रत्यनीकमनुष्येण पुरुषेण स्त्रिया नपुंसकेन वा हन्येत चत्वारो गुरवः ॥८८४॥ अथ प्रकृतमर्थमुपसंहरन्नान्तरमुपन्यस्यन्नाह
एवं ता असहाए, सहायसहिए इमे भवे भेदा।
जय अजय इत्थि पंडे, अस्संजइ संजईहिं च ॥ ८८५ ॥ एवं तावत् 'असहायस्य' एकाकिनो व्रजतो दोषा उक्ताः । सहायसहिते व्रजति विचार्यमाणे 30 एते सहायस्य भेदा भवन्ति । तद्यथा-'यताः' संयताः 'अयताः' असंयताः "इत्थि" ति पाषण्डिस्त्रियः 'पण्डकाः' नपुंसकाः 'असंयत्यः' गृहस्थस्त्रियः 'संयत्यः' साध्व्यः, एतैः सार्धं गच्छति ॥ ८८५ ॥ इदमेव व्याचष्टे१ गाथेयं चूर्णौ नास्त्यादृता ॥