________________
२८१
भाष्यगाथाः ८७५-८२ । प्रथम उद्देशः । अथ प्रकारान्तरेण प्रायश्चित्तमाह----
दिय-राओ लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगा य ।
संजम-आयविराहण, संजमें आरोवणा इणमो ।। ८७८ ।। अशुद्धेषु भङ्गेषु सर्वेप्वपि दिवसतो गच्छतश्चत्वारो लघुकाः, रात्रौ पुनश्चत्वारो गुरुकाः । तीर्थकराणामाज्ञाभङ्गे चतुर्गुरुकाः । अनवस्थायां चत्वारो लघुकाः 1 मिथ्यात्वेऽपि चत्वारो । लघुकाः । अत्र चानवस्था-मिथ्यात्वे प्रक्रमाद् द्रष्टव्ये । विराधना द्विविधा-संयमे आत्मनि च । तत्र संयमविराधनायाम् ‘इयं' वक्ष्यमाणा 'आरोपणा' प्रायश्चित्तम् ॥ ८७८ ।। तामेवाह
छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे ।
संघट्टण परितावण, लहु गुरुगऽतिवायणे मूलं ॥ ८७९ ॥ 'षट्कायाः' पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः । तेषां मध्ये 'चतुर्यु' पृथिव्यप्तेजोवायुषु सङ्घ-10 दृनादौ लघुकपर्यन्तं प्रायश्चित्तम् । 'परीत्ते' प्रत्येकवनस्पतिकायेऽपि लघुकान्तम् । 'साधारणे' अनन्तवनस्पतौ गुरुकान्तम् । तथा द्वीन्द्रियादीनां सङ्घट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् , 'अतिपातने' विनाशने मूलम् । इयमत्र भावना-पृथिवीकायं सङ्घट्टयति मासलघु, परितापयति मासगुरु, अपद्रावयति चतुर्लघु; एवमप्काये तेजःकाये वायुकाये प्रत्येकवनस्पतिकाये च द्रष्टव्यम् ; अनन्तवनस्पतिं यदि सङ्घट्टयति तदा मासगुरु, परित पयति चतुर्लघु, 15 अपद्रावयति चतुर्गुरु; द्वीन्द्रियं सङ्घट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघु; त्रीन्द्रियं सङ्घयतश्चतुर्गुरु, परितापयतः षड्लघु, जीवित.द् व्यपरोपयतः षड्गुरु; चतुरिन्द्रियं सङ्घयतः षड्लघु, परितापयतः षड्गुरु, जीवित द् व्यपरोपयतः छेदः; पञ्चेन्द्रियं सट्टयतः षड्गुरु, परितापयतो लघुमासिकच्छेदः, अपद्रावयतो मूलम् ॥ ८७९ ॥ अथैतदेव प्रायश्चित्तं रात्री विशेषयन्नाह -
जहिँ लहुगा तहिं गुरुगा, जहिँ गुरुगा कालगुरुग तहिँ ठाणे।
छेदो य लहुय गुरुओ, काएसाऽऽरोवणा रत्तिं ॥ ८८० ॥ यत्र दिवसतः 'लघुकानि' मासलघु-चतुर्लघु-षडलघुरूपाणि तत्र रात्रावेतान्येव 'गुरुकाणि' मासगुरु-चतुर्गुरु-षड्गुरुरूपाणि कर्त्तव्यानि । यत्र पुनरग्रेऽपि गुरुकाणि मासादीनि तत्र स्थाने तान्येव कालगुरुकाणि दातव्यानि । यत्र च च्छेदो लघुकस्तत्र स एव गुरुकः कर्तव्यः । 'काये' 25 कायविषया एषा आरोपणा रात्रौ ज्ञातव्या ॥ ८८० ॥ अथाऽऽत्मविराधनामाह
कंट-ट्टि खाणु विजल, विसम दरी निन्न मुच्छ-मूल-विसे । वाल-ऽच्छभल्ल-कोले, सीह-विग-वराह-मेच्छित्थी ।। ८८१ ॥ तेणे देव-मणुस्से, पडिणीए एकमाइ आयाए।
मास चउ छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ ८८२ ॥ स साधुः कोट्टकादौ व्रजन् कण्टकेन वा अस्ना वा स्थाणुना वा पदयोः परिताप्येत । 'विजलं' पकिलम् 'विषमं' निनोन्नतम् 'दरी' कुसारादिका 'निम्नं' गम्भीरा गा; एतेषु पतितस्य मूर्छा वा भवेत् , शूलं वा अनुधावेत, “विसं" ति विषकण्टकेन वा विध्येत, विषफलं वा भक्षयेत् , तथा
20