SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २८० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ नेन क्रमेण निक्षेप्याः, चतुर्थपङ्कावेको लघुक एको गुरुक इत्येकान्तरितलघु-गुरुरूपाः षोडशैवाक्षाः स्थापयितव्याः । एवमन्यत्रापि भङ्गकप्रस्तारे यत्र यावन्तो भङ्गकास्तत्र तावदायामः चरमपकावेकान्तरितानाम् अक्तिनपतिषु पुनर्द्विगुणद्विगुणानां लघु गुरूणामक्षाणां निक्षेपः कर्तव्यः । उक्तञ्च भंगपमाणायामो, लहुओ गुरुओ य अक्खनिक्खेवो । आरओं दुगुणा दुगुणो, पत्थारे होइ निक्वेवो ॥ (कल्पबृहद्भाष्ये) एतेष्वेव शुद्धा-ऽशुद्धस्वरूपं दर्शयति--"सुद्धा एगंतरिया" इत्यादि । प्रथमे भङ्गकाष्टके प्रथमभङ्गरहिताः शेष स्त्रयो भङ्गका एकान्तरिताः शुद्धाः । इदमुक्तं भवति-प्रथमो भङ्गकश्चतु वपि पदेषु निरवद्यत्वादेकान्तेन शुद्ध इति न काचित् तदीया विचारणा, तं मुक्त्वा ये प्रथ10 माष्टके शेषा भङ्गकस्ते एकान्तरितास्तृतीय-पञ्चम-सप्तमरूप.स्त्रयः कचिदुत्पथादौ पदेऽशुद्धा अपि सालम्बनत्वाच्छुद्धाः प्रतिपतव्याः । अर्थादापन्नं द्वितीय-चतुर्थ-षष्ठा-ऽष्टमा भङ्गका दिवादौ पदे शुद्धा अपि निरालम्बनत्वादशुद्धाः । एवं द्वितीयाष्टकेऽपि प्रथमो भङ्गः शुद्धः शेषास्त्रयः एकान्तरिताः शुद्धाः, सालम्बनत्वात् ॥ ८७४ ॥ अत एवाह पढमो एत्थ उ सुद्धो, चरिमो पुण सबहा असुद्धो उ । अवसेसा वि य चउदस, भंगा भइयधगा होति ॥ ८७५ ॥ प्रथमो भगः 'अत्र' एषां षोडशानां भङ्गानां मध्ये 'शुद्धः' सर्वथा निर्दोषः, चरमश्च भङ्गः सर्वथा अशुद्धः, अवशेषाश्चतुर्दश भङ्गाः 'भक्तव्याः' विकल्पयितव्या भवन्ति, केचित् शुद्धाः केचित् पुनरशुद्धा इति भावः ॥ ८७५ ॥ कथम् ? इति चेद् उच्यते आगादम्मि उ कजे, सेस असुद्धो वि सुज्झए भंगो। 20 न विसुज्झें अणागाढे, सेसपदेहि जइ वि सुद्धो ॥ ८७६ ।। 'आगाढे कार्ये' पुष्टे आलम्बने गच्छतः ‘शेषैः' राव्युत्पथानुपयुक्तलक्षणैः पदैरशुद्धोऽपि भङ्गः शुध्यति । 'अनागाढे' आलम्बनाभावे शेषैः-दिवापथोपयुक्तलक्षणैः पदैर्यद्यपि शुद्धस्तथापि न विशुध्यति ।। ८७६ ॥ अथ किं कुत्र प्रायश्चित्तं भवति ? इत्युच्यते-- लहुगा य निरालंबे, दिवसतों रत्तिं हवंति चउगुरुगा । लहुगो य उप्पहेणं, रीयादी चेवऽणुव उत्ते ॥ ८७७॥ यत्र यत्र निरालम्बस्तत्र तत्र दिवसतो गच्छतः चत्वारो लघुकाः, रात्रौ चत्वारो गुरुकाः । यत्र यत्र दिवसत उत्पथेन गच्छति तत्र तत्र मासलघु । यत्र यत्र दिवसत ईर्याप्रभृतिसमितिप्वनुपयुक्तो गच्छति तत्र तत्र मासलघु । रात्रावुत्पथगमनेऽनुपयुक्तगमने च मासगुरु ॥ ८७७ ॥ १°व्याः। “सुद्धा एगंतरिया" इत्य दिना पश्चाद्धेन भङ्गकानां शुद्धा-ऽशुद्धस्वरूपं निर्धारितम् । तथाहि-प्रथमे भङ्ग काटके भा० ॥ २ एतद् थानन्तरं चूर्णिकृद्भिः “इदाणिं एतेसि पच्छितं भण्णति" इत्यवतीर्थ "दिव-रातो लहु-गुरुगा." ८७८ गाथा खीकृताऽस्ति, तदनन्तरम् “अस्य व्याख्या" इत्युल्लिस्यैतद्गाथाव्याख्यानरूपेण "लहुगा य णिरालंबे०" ८७७ गाथा व्याख्याता वर्तते ।। ३:वसे ग त• डे० ॥ 25
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy