________________
भाष्यगाथाः ८६९-७४ ] प्रथम उद्देशः ।
२७९ अंतो आवणमाईगहणे जा वणिया सवित्थारा ।
बहिया उ अन्नगहणे, पडियम्मि उ होइ स च्चेव ॥ ८७१ ॥ ग्रामादीनाम् 'अन्तः' मध्ये आपणादौ-आपणे आपणवर्जे वा जुगुप्सितेऽजुगुप्सिते वा सपरिग्रहेऽपरिग्रहे वा ग्रहणे या सविस्तरा “दिट्टे संका भोइय' ( गा० ८६६ ) इत्यादिलक्षणप्रपञ्चसहिता वर्णिता शोधिरित्युपस्कारः सैव ग्रामादीनां बहिः पतितप्रलम्बविषयेऽन्यत्रग्रहणे छ निरवशेषा द्रष्टव्या ॥ ८७१ ॥ उक्तं बहिर्ग्रहणम् , तद्भणने च समर्थितं वसत्प्रदेशविषयं ग्रहणम् । अथाटवीविषयमाह
कोट्टगमाई रन्ने, एमेव जणो उ जत्थ पुंजेइ ।
तहियं पुण वच्चंते, चउपयभयणा उ छद्दसिया ॥ ८७२ ॥ 'जनः' लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति, 10 पश्चाद् गन्त्री-पोट्टलकादिभिरानीय नगरादौ विक्रीणाति तत् कोट्टकमुच्यते । ततश्चारण्ये कोट्टकादौ प्रदेशे यत्र जनः फलानि शोषणार्थ 'पुञ्जयति' पुञ्जीकरोति तत्र प्रलम्बग्रहणे 'एवमेव' यथा वसिमे “दिट्टे संका भोइय' ( गा० ८६६) इत्यादिकमुक्तं तथैव प्रायश्चित्तमवसातव्यम् । विशेषः पुनरयम्-"तहियं पुण" इत्यादि । 'तत्र पुनः' कोट्टकादौ व्रजतः चतुर्भिः पदैः 'भजना' भङ्गकरचना 'षड्दशिका' षोडशभङ्गप्रमाणा कर्तव्या ।। ८७२ ॥ कथम् ? इति चेद् उच्यते- 15
वच्चंतस्स य दोसा, दिया य रातो य पंथ उप्पंथे ।
उवउत्त अणुवउत्ते, सालंब तहा निरालंबे ॥ ८७३ ॥ तत्र व्रजतो बहवो दोषा भवन्ति, ते चोपरिष्टाद् भणिप्यन्ते । दिवा च रात्रिश्च पन्था उत्पथश्च उपयुक्त अनुपयुक्तः सालम्बस्तथा निरालम्बश्चेति अक्षरयोजना । अथ भावार्थ उच्यते-दिवा गच्छति पथा उपयुक्तः सालम्बः १ दिवा गच्छति पथा उपयुक्तो निरालम्बः २ दिवा गच्छति 20 पथा अनुपयुक्तः सालम्बः ३ दिवा गच्छति पथा अनुपयुक्तो निरालम्बः ४, एवमुत्पथपदेनापि चत्वारो भङ्गाः प्राप्यन्ते, जाता अष्टौ भङ्गाः ८, एते दिवापदममुञ्चता लब्धाः, एवं रात्रिपदममुञ्चताऽप्यष्टौ भङ्गा लभ्यन्ते, सर्वसङ्ख्यया षोडश भङ्गाः ॥ ८७३ ॥ अमीषां रचनोपायमाह
अट्ठग चउक्क दुग एकगं च लहुगा य होति गुरुगा य ।
सुद्धा एगंतरिया, पढमरहिय सेसगा तिण्णि ॥ ८७४ ॥ 25 इहाक्षाणां चतस्रः पतयः स्थाप्यन्ते । तत्र प्रथमपतौ प्रथममष्टौ लघुकास्ततोऽप्यष्टौ गुरुका इत्येवं षोडशाक्षा निक्षेपणीयाः, द्वितीयपतौ चत्वारः प्रथमं लघुकास्ततश्चत्वारो गुरुकाः पुनश्चत्वारो लघुकास्तदनु चत्वारो गुरुकाः, तृतीयपतावपि षोडशाक्षा द्वौ लघुकौ द्वौ गुरुकावित्य
१ “कोहगं णाम जत्थ भिल्ला लोगो वा अडवीए पउरफलाए गंतुं फलाणि पुंजेति" इति चूर्णिः॥ २०प्यन्ते । एकैकस्यां च पती षोडश षोड़शाक्षाः स्थाप्याः । तत्र च प्रथमपतौ दिवा. ग्रहणं कुर्वद्भिरघोऽधोऽक्षान् निक्षिपद्भिरष्टौ लघुका अक्षाः स्थापनीयाः तेषामघो रात्रि
वाणैरष्टौ गुरुका अक्षा निक्षेपणीयाः। द्विती° भा०॥ ३°यपी द्वौ लघुकौ द्वी गुरुको पुनद्वौ लघुकौ द्वौ गुरुकावित्यनेन क्रमेण षोडशाक्षा निक्षेप्याः। चतुर्थ भा०॥