________________
भाष्यगाथाः ८६३ - ६८ ]
प्रथम उद्देशः ।
२७७
युवादिना महता पुरुषेण प्रलम्बानि गृह्णन् दृष्टः चतुर्लघु । ततस्तस्य शङ्का जायते ' किं सुवर्णादिकं गृहीतम् ? उत प्रलम्बम् ?' तदाऽपि चतुर्लघु । निःशङ्किते चत्वारो गुरवः । अथासौ "भोइय" त्ति भोजयति भर्त्तारमिति भोजिका - भार्या तस्याः कथयति — "प्रिये ! मया संयतः फलानि गृह्णानो दृष्टः' इत्युक्ते यदि तया प्रतिहतः ' मैवं वादीः, न सम्भवत्येवेदृशं महात्मनि साधो' इति ततश्चतुर्गुरुकमेव । अथ तया न प्रतिहतस्ततः षड् लघवः । आसन्नतरः सम्बन्ध इति 5 कृत्वा प्रथमं भोजिकाया अग्रे कथयतीति, एवं मित्रादिष्वपि मन्तव्यम् । ततः " घाडि" त्ति घाटः सङ्घाः सौहृद मित्येकोsर्थः, स विद्यतेऽस्येति 'घाटी' सहजातकादिः वयस्य इत्यर्थः, तस्याग्रे तथैव कथयति, तेनापि यदि प्रतिहतस्तदा षड् लघव एव । अथ न प्रतिहतस्ततः षड् गुरवः । ततो निजाः - माता- पित्रादयस्तेषां कथयति, तैः प्रतिहतः षड् गुरव एव । अप्रतिहते पुनश्छेदः । तत आरक्षिकेण आरक्षिकपुरुषैर्वा तस्य सकाशादन्यतो वा प्रलम्बग्रहणवृत्तान्ते श्रुते ततः प्रतिहते 10 छेद एव । अप्रतिहते पुनर्मूलम् । ततः श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गस्य ततोऽन्यतो वा वृत्तान्तश्रवणे तेन च प्रतिहते मूलमेव । अप्रतिहतेऽनवस्थाप्यम् । ततो राज्ञा उपलक्षणत्वाद् अमात्येन च ज्ञाते ततः प्रतिहतेऽनवस्थाप्यम् । अप्रतिहते पाराञ्चिकम् । पश्चार्द्धे यथाक्रमममीषामेव प्रायश्चित्तान्यभिहितानि तानि च भावितान्येव । नवरं “दुगं" ति अनवस्थाप्य - पाराञ्चिकद्वयम् ॥ ८६६ ॥
15
एवं ता अदुगुछिएँ, दुछिए लसुणमाइ एमेव ।
नवरिं पुण चउलहुगा, परिग्गहे गिण्हणादीया || ८६७ ॥
एवं तावद् 'अजुगुप्सिते' आम्रादौ प्रलम्बे गृह्यमाणे प्रायश्चित्तं दृष्टव्यम् । जुगुप्सिते पुनरिदं नानात्वम् । जुगुप्सितं द्विधा – जातिजुगुप्सितं स्थानजुगुप्सितं च । तत्र जातिजुगुप्सितं लशुनादि, आदिग्रहणेन पाण्डुप्रभृतिपरिग्रहः । स्थानजुगुप्सितं पुनरशुचिस्थाने कर्दमादौ 20 पतितम् । द्विविधेऽपि जुगुप्सिते 'एवमेव ' अजुगुप्सितवत् प्रायश्चित्तं वक्तव्यम् । 'नवरं' केवलं पुनः कल्पस्थकदृष्टं जुगुप्सितं गृह्णानस्य चतुर्लघवोऽत्र ज्ञातव्याः । अजुगुप्सिते पुनः “कब्बट्टदि हैं। लहुओ" ( गा० ८६५ ) त्ति लघुमास एवोक्त इति विशेषः । एतच्च सर्वमप्यपरिग्रहमधिकृत्योतम् । “परिग्गहे गिण्हणादीय" ति यत् पुनः प्रलम्बं कस्यापि परिग्रहे वर्त्तते तस्मिन् जुगुप्सिते वा अजुगुप्सिते वा प्रायश्चित्तं तथैव वक्तव्यम्, परं यस्य श्रेष्ठ्यादेः परिग्रहे तानि प्रलम्बानि 25 वर्त्तन्ते तत्कृता ग्रहणा -ऽऽकर्षण-व्यवहारादयो दोषा अत्राधिका भवन्तीति ॥ ८६७ ॥
गतं द्रव्यतः प्रायश्चित्तम् । अथ क्षेत्रतः कालतश्च प्ररूपयति
* खेत्ते निवेसणाई, जा सीमा लहुगमाइ जा चरिमं । सिंची विati, काले दिन मे सपदं ॥ ८६८ ॥
क्षेत्रतो निवेशनमादौ कृत्वा यावद् ग्रामस्य सीमा एतेषु स्थानेषु गृह्णानस्य लघुकादिकं यावत् 30 'चरिमं' पाराञ्चिकम् । किमुक्तं भवति ? – निवेशने - महागृहपरिवारभूत गृहसमुदायरूपे गृह्णाति
१ °देव्यध्या° डे॰ ॥ २ गाथेयं चूर्णो “भावऽट्टवार सपदं०” ८७० गाथाऽनन्तरं व्याख्याताऽस्ति ॥ ३ आदिशब्देन पला कां० ॥ ४ खेत्ततो नि° ता० ॥ ५ अट्ठहिं सप° ता० चूर्णि विना ॥