________________
२७६
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ तथा प्रलम्बं गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति, अनवस्था मिथ्यात्वं विराधना च संयमाऽऽत्मविषया कृता भवति । शिप्यः पृच्छति-कस्यैतत् प्रायश्चित्तमाज्ञादयश्च दोषाः ? । गुरु-. राह-अगीतार्थस्य भिक्षोरिति । एतच सप्रपञ्चमुपरिष्टाद् भावयिप्यते ॥ ८६२ ॥ अथ प्रलम्बग्रहणे विस्तरेण प्रायश्चित्तं वर्णयितुकाम इमां द्वारगाथामाह
अन्नत्थ-तत्थगहणे, पडिते अच्चित्तमेव सचित्ते ।
छुभणाऽऽरुहणा पडणे, उवही तत्तो य उड्डाहो ॥ ८६३ ॥ प्रलम्बग्रहणं द्विधा-अन्यत्रग्रहणं तत्रग्रहणं च । वृक्षादन्यत्र-अन्यस्मिन् प्रदेशे ग्रहणम् अन्यत्रग्रहणम् , तत्रैव-वृक्षप्रदेशे ग्रहणं तत्रग्रहणम् । तथा पतितं वृक्षस्याधस्ताद् यद् गृह्णाति तद् द्विधा-अचित्तं सचित्तं च । तस्य पतितस्याप्राप्तौ वृक्षोपरिस्थितप्रलम्वपातनाय "छुभण"नि 10 काष्ठादेः प्रक्षेपणम् । तथाऽप्यप्राप्ती "आम्हण" त्ति तस्मिन् वृक्षे आरोहणं करोति । आरूढस्य च
कदाचित् पतनं भवेत् । प्रलम्बं गृह्णन्तं दृष्ट्वा च प्रान्तेन केनचिदुपधिरपहियेत । ततश्चोड्डाहः सञ्जायेतेति द्वारगाथासमासार्थः ॥ ८६३ ।। विस्तरार्थं प्रतिद्वारं विभणिषुः प्रथमतोऽन्यत्रग्रहणं विवृणोति
अण्णगहणं तु दुविहं, वसमाणेऽडवि वसंति अंतों नहिं ।
अंताऽऽवण तव्बजे, रच्छा गिह अंतों पासे वा ॥ ८६४ ॥ अन्यत्रग्रहणं द्विविधम् , तद्यथा-वसति अटन्यां च । तत्र यद् वसति प्रदेशे तद् द्विधा--- ग्रामादीनामन्तो बहिश्च । यद् ग्रामादीनामन्तन्तत् पुनर्द्विविधम् ----आपणे तद्वर्जे च । आपणःहट्टः, तत्र स्थितस्य प्रलम्बस्य यद् ग्रहणं तद् आपणविषयम् । यत् पुनरापणवर्जे गृहे वा रथ्यायां वा
गृह्णाति तत् तद्वर्जविषयम् । तत्र यद् आपणविषयं तद् आपणस्यान्तर्वा भवेत् पार्श्वतो वा । यत् 20 तद्वर्जविषयं तदपि रथ्याया गृहस्य वा अन्तर्वा भवेत् पार्श्वतो वेति । एतच्च सर्वमपि द्विधा
अपरिग्रहं सपरिग्रहं च । तत्रापणे तद्वर्जे वा अपरिग्रहे गृह्णानस्य द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्विधं प्रायश्चित्तम् ॥ ८६४ ॥ तत्र द्रव्यतम्तावदाह
कबट्ठदिढे लहुओ, अटुप्पत्तीय लहुग ते चेव ।
परिवड्डमाणदोसे, दिट्ठाई अन्नगहणम्मि ॥ ८६५ ॥ ॐ कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमचित्तं गृह्णानो यदि दृष्टस्तदा मासलघु । अथ संयतं प्रलम्ब गृह्णन्तं दृष्ट्वा कल्पस्थकम्यार्थः-प्रयोजनं तस्योत्पत्तिः-'अहमपि गृह्णामि' इत्येवंलक्षणा भवति ततश्चतुर्लघवः । अथ न कल्पस्थेन किन्तु महता पुरुषेण प्रलम्बं गृह्णानो दृष्टस्तदा "ते चेव" ति त एवं चत्वारो लघवः । अथ तस्याप्यर्थोत्पत्तिः-'अहमपि गृह्णामि' इतिलक्षणा जायते ततोऽपि चत्वारो लघवः । अत्र च ये दृष्टादयः परिवर्द्धमाना दोषा अन्यत्रग्रहणे 30 भवन्ति ताननन्तरगाथया वक्ष्यमाणान् शृणुत ॥ ८६५ ॥ तानेवाह
दिद्वे संका भोइय-घाडि-निआ-ऽऽरक्खि सेट्टि-राईणं ।
चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥ ८६६ ॥ १ वसंते ता० ॥ २ अंत पा ता० ॥ ३ इति ततो भा० त. डे० ॥