________________
10
भाप्यगाथाः ८५५-६२] प्रथम उद्देशः ।
उभयमवि एइ भोगं, परित्त साउं च तो गहणं ॥ ७॥ को नाम नियमस्तलेन येन तस्यैव ग्रहणं कृतं नान्येषां वृक्षाणाम् ? । सूरिराह-तालस्य सम्बन्धि मूला-ऽअप्रलम्बरूपमुभयमपि ‘भोगम्' उपयोगमेति, तथा 'परीत्तं' प्रत्येकशरीरं 'खादु च' मधुरं तद् भवति, अतस्तस्य प्रतिषेधे सुतरामनन्तकायिकादीनां प्रतिषेधः कृतो भवति, ततस्तालस्य ग्रहणं कृतमिति ॥ ८५७ ॥ गतं प्रलम्वपदम् । अथ भिन्नपदं व्याचिख्यासुराह-5
नामं ठवणा (ग्रन्थानम्-२५००) भिनं, दव्वे भावे अ होइ नायव्वं ।
दव्वम्मि घड-पडाई, जीवजढं भावतो मिन्नं ॥८५८॥ [नि. ४७१९-४८६०) नामभिन्न स्थापनाभिन्नं द्रव्यभिन्नं भावभिन्नं च भवति बोद्धव्यम् । नाम-स्थापने क्षुण्णे। द्रव्यभिन्नं घट-पटादिकं वस्तु यद् भिन्न-विदारितम् । भावतो भिन्नं तु यद् जीवेन जढं-परित्यतं तद् मन्तव्यम् ।। ८५८ ।। अत्र चतुर्भङ्गीमाह
भावेण य दव्वेण य, मिन्ना-मिन्ने चउक्कभयणा उ । पढमं दोहि अभिन्नं, विइयं पुण दव्वतो मिन्नं ॥ ८५९ ॥ तइयं भावतों मिन्नं, दोहि विभिन्नं चउत्थगं होइ ।
एएर्सि पच्छित्तं, वोच्छामि अहाणुपुवीए ॥ ८६० ॥ भावेन च द्रव्येण च भिन्ना-ऽभिन्नयोः 'चतुष्कभजना' चतुर्भङ्गीरचना कर्तव्या । तत्र 'प्रथम' 15 प्रथमभङ्गवर्ति प्रलम्बं 'द्वाभ्यामपि' भावेन द्रव्येण च अभिन्नम् । द्वितीयं पुनर्द्रव्यतो भिन्नं भावतस्त्वभिन्नम् ॥ ८५९ ॥
तृतीयं भावतो भिन्नं द्रव्यतः पुनरभिन्नम् । चतुर्थ 'द्वाभ्यामपि' भावतो द्रव्यतश्च भिन्नं भवति । एतेषां' चतुर्णामपि प्रायश्चित्तं 'यथाऽऽनुपूर्व्या' यथोक्तपरिपाट्या 'वक्ष्यामि' भणिष्यामि ॥ ८६० ॥ प्रतिज्ञातमेव निर्वाहयति
लहुगा य दोसु दोसु य, लहुओ पढमम्मि दोहि वी गुरुगा।
तवगुरुअ कालगुरुओ, दोहि वि लहुओ चउत्थो उ ॥ ८६१ ॥ प्रथम-द्वितीययोर्द्वयोर्भङ्गयोश्चत्वारो लघुकाः, मावतोऽभिन्नतया सचेतनत्वात् । 'द्वयोस्तु' तृतीय-चतुर्थयोर्मासलघु । तथा प्रथमे भङ्गे ये चत्वारो लघुकास्ते द्वाभ्यामपि गुरवः तपसा कालेन च । द्वितीये भङ्गे ये चत्वारो लघवस्ते तपसा गुरवः कालेन लघवः । तृतीयभङ्गे यद् मासलघु 25 तत् कालेन गुरु तपसा लघु । चतुर्थस्तु भङ्गो द्वाभ्यामपि लघुकः तपसा कालेन च । लघुकं तत्र ( त्वत्र ) मासलघु द्रष्टव्यमित्यर्थः ॥ ८६१ ॥
उग्घाइया परित्ते, होति अणुग्याइया अणंतम्मि ।
आणाऽणवत्थ मिच्छा, विराहणा कम्मऽगीयत्थे ।।८६२ ॥ एतानि प्रायश्चित्तानि 'उद्घातिकानि' लघुकानि 'परीत्त' प्रत्येकप्रलम्बे भणितानि । 'अनन्ते' 30 अनन्तकाये पुनरेतान्येव 'अनुद्धातिकानि' गुरुकाणि ज्ञातव्यानि, प्रथम-द्वितीययोश्चत्वारो गुरुकाः तृतीय-चतुर्थयोस्तु भङ्गयोर्मासगुरु प्रायश्चित्तं तपः-कालविशेषितं पूर्ववद् वक्तव्यमिति भावः । . १°वति ज्ञातव्यम् भा० ॥
20