________________
15
भाष्यगाथाः ८४६-५४ ] प्रथम उद्देशः ।
२७३ इत्याह---येन कर्मणा जीवः तुशब्दः संसारीति विशेषणार्थः 'प्रलम्बते' नैरयिकादिकां गतिं गति प्रति लम्बत इति तद् भावतः प्रलम्बम् ॥ ८४९ ॥ अत्र परः प्राह
तालं तलो पलंब, तालं तु फलं तलो हवइ रुक्खो ।
पलं च होइ मूलं, झिझिरिमाई मुणेयव्वं ॥ ८५० ॥ किमिदं तालम् ? को वा तलः ? किं वा प्रलम्बम् ? । अत्र सूरिराह—तालं तावत् फलं तल-5 वृक्षसम्बन्धि, तच्चाग्रप्रलम्बमुच्यते । तल: पुनस्तदाधारभूतो वृक्षः । प्रलम्ब पुनर्मूलं भवति, प्रलम्बशब्देनेह मूलप्रलम्ब गृहीतमिति भावः । तच्च 'झिज्झिर्यादिकं' झिज्झिरिप्रभृतिवृक्षसम्बन्धि "मुणेयवं" ज्ञातव्यम् ॥ ८५० ॥ तदेव मूलप्रलम्बमाह
झिझिरि सुरभिपलंबे, तालपलंवे अ सल्लइपलंबे । एतं मूलपलंब, नेयव्वं आणुपुवीए ॥ ८५१॥
10 झिझिरी-वल्लीपलाशकः सुरभिः-सिग्गुकः तयोः प्रलम्ब-मूलम् । एवं तालप्रलम्बं च सल्लकीप्रलम्बम् , चशब्दादन्यदपि मूलं यद् लोकस्योपभोगमायाति तदेतद् मूलप्रलम्बं ज्ञातव्यमानुपूर्व्या ॥ ८५१ ॥ अथाग्रप्रलम्ब विवृणोति
__ तल नालिएर लउए, कविट्ठ अंबाड अंबए चेव।।
एअं अग्गपलंब, नेयव्वं आणुपुवीए ॥ ८५२ ॥ तलफलं नालिकेरफलं लकुचफलं कपित्थफलम् आम्रातकफलम् आम्रफलं चशब्दस्यानुक्तसमुच्चयार्थत्वाद् अन्यदपि कदलीफल-वीजपूरादिकम् एतदअप्रलम्ब ज्ञातव्यमानुपूा ॥ ८५२॥ अथ परः प्राह
जइ मूल-ऽग्गपलंबा, पडिसिद्धा न हु इयाणि कंदाई ।
कप्पंति न वा जीवा, को व विसेसो तदग्गहणे ॥ ८५३ ॥ 20 यदि मूलप्रलम्बा-ऽअप्रलम्बे प्रतिषिद्धे न पुनः 'इदानीम्' अस्मिन् सूत्रे 'कन्दादयः' कन्दस्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्प-बीजानि प्रतिषिद्धानि, यतश्चैतेषां प्रतिषेधं न करोति सूत्रं ततो मदीयायां मतौ प्रतिभासते-अवश्यमेते कन्दादयः कल्पन्ते प्रतिग्रहीतुं जीवा अपि सन्तः, अथवा तत्त्वतो नाऽमी जीवा भवन्ति, यदि हि जीवा भवेयुस्ततः प्रतिषेधोऽप्यमीषामस्मिन् सूत्रे कृतः स्यात् ; अथेत्थं भणिप्यन्ति भवन्तः—जीवा एवामी न च कल्पन्ते ततः सूत्रं 25 दुर्वद्धम् ; अथ ब्रवीध्वम्-जीवा अमी न च कल्पन्ते सूत्रं च सुबद्धम्, ततः को वा विशेषहेतुस्तेषां-कन्दादीनामग्रहणे येन ते न गृहीताः ? इति ॥ ८५३ ।। अत्र सूरिः प्रतिवचनमाह
चोयग! कन्नसुहेहिं, सद्देहिँ अमुच्छितो विसह फासे ।
मज्झम्मि अट्ट विसया, गहिया एवष्ट कंदाई ॥ ८५४ ॥ हे नोदक ! यथा दशवैकालिके१°दन्यदप्येवंविधमेतद् मूलप्रलम्ब ज्ञातव्यमानुपूर्व्या । आह किमन्येषां सहकारादीनां मूलानि न भवन्ति येनैतान्येवाभिधीयन्ते ? उच्यते-भवन्ति, परमेतेषामेव .बाहुल्येन लोकस्य भक्षणोपयोगितेत्येतान्येवोपात्तानीति ॥ ८५१ ॥ अथाम भा० ॥
__30