________________
२७२
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ उग्गमदोसाईया, भावतों अस्संजमो अ आमविही ।
अन्नो वि य आएसो, जो वरिससयं न पूरेइ ।। ८४६ ॥ उद्गमदोषाः-आधाकर्मादयः, आदिग्रहणाद् उत्पादनादोषा एषणादोषाश्च, एतद् भावामं प्रतिपत्तव्यम् । तथा च आचाराङ्गसूत्रम्
सवामगंधं परिन्नाय निरामगंधो परिवए (श्रु० १ अ० २ उ० ५)। 'असंयमश्च' पृथिव्याधुपमर्दलक्षणो भावतः आमविधिरेव ज्ञातव्यः, चारित्रापकताकरणात् । यद्वाऽन्योऽपि 'आदेशः' प्रकारो भण्यते-यो वर्षशतायुः पुरुष आयुप्कोपक्रमेण वर्षशतमपूरयित्वा म्रियते सोऽपि भावत आमः, आयुषः परिपाकमन्तरेण मरणात् । अत्र च द्रव्यामेणाधि
कारः, तत्रापि वृक्षपर्यायामेण, शेषाणामुच्चारितसदृशतया विनेयव्युत्पादनार्थं प्रसङ्गतः प्ररूपित10 त्वात् ॥ ८४६ ॥ व्याख्यातमामपदम् । अथ तालपदं विवृणोति
नामं ठवणी दविए, तालो भावे य होइ नायव्यो ।
जो भविओ सो तालो, दब्वे मूलुत्तरगुणेसु ॥ ८४७॥ नामतालः स्थापनातालो द्रव्यतालो भावतालश्च भवति ज्ञातव्यः । तत्र नाम-स्थापने क्षुण्णे । द्रव्यतालः पुनरयम्-"जो भविउ" ति यः खलु 'भव्यः' भावितालपर्यायः । स च त्रिधा• 15 एकभविको बद्धायुप्कोऽभिमुखनाम-गोत्रश्च । तत्रैकभविको नाम यो विवक्षितभवानन्तरं तालत्वे
नोत्पत्स्यते, बद्धायुप्को येन तालोत्पत्तिप्रायोग्यमायुःकर्म बद्धम् , अभिमुखनाम-गोत्रः पुनर्विपाकोदयाभिमुखतालसम्बन्धिनाम-गोत्रकर्मा तालत्वेनोत्पित्सया विक्षिप्तजीवप्रदेशः । यद्वा द्रव्यतालो द्विविधः-मूलगुणनिर्वर्तित उत्तरगुणनिर्वर्तितश्च । तत्र खायुषः परिक्षयादपगतजीवो यः
स्कन्धादिरूपस्तालः स मूलगुणनिर्वर्तितः, यस्तु काष्ठ-चित्रकर्मादिप्वालिखितः स उत्तरगुणनि20वर्तितः । एष द्रव्यतालः ॥ ८४७ ॥ सम्प्रति भावतालमाह
भावम्मि होति जीवा, जे तस्स परिग्गहे समक्खाया।
बिइओ वि य आदेसो, जो तस्स विजाणओ पुरिसो ॥८४८॥ 'भावे' भावविषयस्तालो ये जीवाः 'तस्य' तालस्य परिग्रहे मूल-कन्दादिगतास्ते सर्वेऽपि समुदिताः सन्तो भावताल इति समाख्याताः, नोआगमत इति भावः । द्वितीयोऽप्यत्रादेशोऽस्ति25 यः तस्य' तालस्य 'विज्ञायकः' उपयुक्तः पुरुषः सोऽपि भावताल उच्यते, आगमत इत्यर्थः । अत्र च नोआगमतो भावतालेनाधिकारः, तस्य सम्बन्धि यत् फलं तदिह तालशब्देन प्रत्येतव्यम् ।। ८४८॥ गतं तालपदम् । अथ प्रलम्बपदं विवृणोति
नाम ठवण पलंब, दव्वे भावे अ होइ बोधव्वं ।
अट्टविह कम्मगंठी, जीवो उ पलंबए जेणं ॥ ८४९ ॥ 30 नामप्रलम्बं स्थापनाप्रलम्ब द्रव्यप्रलम्बं भावप्रलम्यं च भवति बोद्धव्यम् । नाम-स्थापने सुगमे ।
द्रव्यप्रलम्बमेकभविक-बद्धायुष्का-ऽभिमुखनामगोत्रभेदभिन्नं मूलोत्तरगुणभेदभिन्नं च द्रव्यतालवद् भावप्रलम्बं च भावतालवद् वक्तव्यम् । यद्वा अष्टविधः कर्मग्रन्थि वप्रलम्बमुच्यते । कुतः ? १°णातालो दन्ने भावे ता० ॥