SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ८३८ - ४५ ] प्रथम उद्देशः । २७१ इन्धनपर्यायामं धूमपर्यायामं गन्धपर्यायामं वृक्षपर्यायाममित्येवं पर्यायाने आमविविश्चतुःप्रकारः । एष खलु आमविधिर्ज्ञातव्यः 'आनुपूर्व्या' यथोक्तया परिपाट्या । यद्वा आनुपूर्वी नाम वक्ष्यमाणलक्षणा पलालवेष्टन - गर्त्ताखनन - करीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना तया ज्ञातव्य आमविधिरिति ॥ ८४१ ॥ अथेन्धन - धूमपर्यायामे विवृणोति कोवपलालभाई, धूमेणं तिंदुगाइ पचते । मज्झऽगडाऽगणि पेरंत हिंदुया छिद्दधूमेणं ।। ८४२ ॥ 5 कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपलालपरिग्रहः, तेन चाऽऽम्रफलादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तद् इन्धनपर्यायामम् । तथा धूमेन तिन्दुकादीनि फलानि पाच्यन्ते, कथं पाच्यन्ते : इत्याह - " मज्झऽगडाइ " चि प्रथमतो गर्त्ताया मध्ये करीषः प्रक्षिप्यते, तस्याश्च गर्त्तायाः पार्श्वेष्वपरा गर्त्ताः खन्यन्ते, तासु च गर्तासु तिन्दु- 10 कादीनि फलानि प्रक्षिप्य मध्यमायां करीषगर्त्तायां “अगणि"त्ति अग्निर्दीयते, तासां च “पेरंत” त्ति पर्यन्तगर्त्तानां श्रोतांसि मध्यमगर्त्तया सह मीलितानि क्रियन्ते, ततस्तस्याः करीषगर्त्तायाः सकाशाद् धूमस्तैः श्रोतोभिः पर्यन्तगर्त्तासु प्रविशति, ततस्तच्छिद्रसम्बन्धिना धूमेन प्रसरता तानि फलानि पाच्यन्त इति, तेषां मध्ये यदामं तद् धूमपर्यायामम् ॥ ८४२ ॥ अथ गन्ध-वृक्षपर्यायामे भावयति 15 अंग-चिभिडमाई, गंधेणं जं च उवरि रुक्खस्स । कालप्पत्त न पच्चर, वत्थप्पलियामगं तं तु ॥ ८४३ ॥ आम्रक-चिर्भटादीनि आदिशब्दाद् बीजपूरकादीनि यान्यपक्कानि फलानि तेषां मध्ये पक्कानि प्रक्षिप्यन्ते, तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते, तत्र यद् अपक्कं फलं तद् गन्धपर्यायामम् । तथा "जं च "त्ति चशब्दस्य पुनरर्थत्वाद् यत् पुनर्वृक्षस्योपरि शाखायां वर्त्तमानं काले -- वसन्ता - 20 दिलक्षणे पाकसमये प्राप्तेऽपि परिपक्केष्वप्यपरफलेषु न पच्यते तद् वृक्षपर्यायामम् ॥ ८४३ ॥ व्याख्यातं चतुर्विधमपि पर्यायामम् । तद्व्याख्याने च समर्थितं द्रव्यामम् । अथ भावामस्वरूपं निरूपयति चोपयुक्तः, उपयोगस्य भावरूपत्वाद् ज्ञानस्य चागमरूपत्वात् ॥ ८४५ ॥ तदेवाह — भावापि यदुविहं, वयणामं चैव नो य वयणामं । वयणाम अणुमयत्थे, आमं ति हि जो वदे वकं ॥ ८४४ ॥ नोवयणामं दुविहं, आगमतो चेव नो अ आगमतो । आगमें नाणुवउत्तो, नोआगमओ इमं होइ ।। ८४५ ॥ भावाममपि द्विविधम्---वचनामं चैव नोवचनामं च । वचनरूपमामं वचनामम्, अनुमतार्थे 'आम्' इति यः 'वाक्यं' वचनं वदेत् तद् वचनामम् । यथा— कोऽपि साधुर्गुरूणां कार्येण गच्छन्नपरेण पृष्टः – आर्य ! किं गुरुकार्येण गम्यते ?, स प्रत्याह -- आमम्, एवमेतदित्यर्थः ॥ ८४४ ॥ ३० नोवचनामं द्विविधम्-आगमतश्चैव नोआगमतश्च । तत्रागमत आमपदार्थज्ञानयुक्तस्तत्र नोआगमतो भावाममिदं भवति 25
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy