________________
२७०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ जइ अभितरमुक्का, बाहिरगंथेण मुक्या किह णु।
गिण्हंता उवगरणं, जम्हा अममत्तया तेसु ॥ ८३८ ॥ यद्यनन्तरोक्तप्रकारेणाऽभ्यन्तरग्रन्थमुक्तास्ततो वस्त्र-पात्रादिकमुपकरणं गृह्णन्तः कथं 'नुः' इति वित बाह्यग्रन्थेन मुक्ता उच्येरन् ?, वस्त्रादेरपि ग्रन्थरूपत्वादित्यभिप्रायः । सूरिराह—यस्मात् 5 'तेषु' वस्त्र-पात्रादिषु न विद्यते ममत्वं-मूर्छा येषां ते 'अममत्वकाः' "शेषाद्वा” (सिद्ध० ७
३-१७५) इति कच्प्रत्ययः मूर्छारहितास्तेन बाह्यग्रन्थमुक्ता अप्यभिधीयन्ते । इयमत्र भावनामूर्छा परिग्रहो गीयते न तूपकरणादिधारणमात्रम् , “मुच्छा परिग्गहो वुत्तो" (दशवै० अ० ६ गा० २१) इति वचनात् । अतः संयमोपष्टम्भादिनिमित्तमुपकरणं धारयन्नपि विशुद्धचेतोवृत्तिरपरिग्रह एव ज्ञातव्यः । तदुक्तं परमगुरुभिः--
अज्झत्थविसोहीए, उवगरणं वाहिरं परिहरंतो । __ अपरिग्गहो त्ति भणिओ, जिणेहिँ तेलोक्कदंसीहिं॥(ओघनि० गा० ७४५) ॥ ८३८॥ गतं ग्रन्थपदम् । अथाऽऽमपदं विवरीषुराह----
नामं ठवणा आमं, दव्वामं चेव होइ भावामं ।
उस्सेइम संसेइम, उवक्सडं चेव पलियामं ॥ ८३९ ॥ [नि. ४७०८-२२॥ 15 आमं चतुर्धा, तद्यथा--नामामं स्थापनामं द्रव्यामं भावामम् । तत्र नाम-स्थापने गतार्थे । द्रव्यामं पुनश्चतुर्धा, तदेव दर्शयति----“उस्सेइम' इत्यादि । उत्-ऊर्दू निर्गच्छता बाप्पेण यः खेदः स उत्स्वेदः, उत्खेदेन निवृत्तमुत्स्वेदिमम् , "भावादिमः” (सिद्ध० ६-४-२१) इति सूत्रेण इमप्रत्ययः, उत्खेदिमं च तदामं च उत्स्वेदिमामम् १ । सम्-एकीभावेन खेदः संवेदः,
तेन निवृत्तं संखेदिमम्, तदेवामं संखेदिमामम् २ । तथोपस्कृता-राद्धा ये वल्ल-चणकादयः, 20 तेषां मध्ये यदामं तदुपस्कृतामम् ३ । पर्यायः-स्वाभाविक औपाधिको वा फलानां पाकपरिणामः, तस्मिन् प्राप्तेऽपि यदामं तत् पर्यायामम् ४ ॥ ८३९ ॥ अथोत्स्वेदिमादिचतुष्टयमेव व्याचष्टे
उस्सेइम पिटाई, तिलाइ संसेइमं तु णेगविहं ।
कंकडयाइ उवक्खड, अविपक्करसं तु पलियामं ॥ ८४०॥ उत्खेदिमं 'पिष्टादि' पिष्टं-सूक्ष्मतन्दुलादिचूर्णनिप्पन्नम् , तद्धि वस्त्रान्तरितमधःस्थितस्यो25 प्णोदकस्य बाप्पेणोत्विद्यमानं पच्यते, तत्र यदामं तद् उत्स्वेदिमामम् , आदिग्रहणाद् भरोलादिपरिग्रहः । संखेदिमं पुनस्तिलादिकमनेकविधम् , इह क्वचित् पिठरादौ पानीयं तापयित्वा पिठरिकायां प्रक्षिप्तास्तिलास्तेनोप्णोदकेन सिच्यन्ते ततस्ते तिलाः संविद्यन्ते, तेषां संखिन्नानां मध्ये ये आमास्तत् संखेदिमामम् , आदिग्रहणेन यदन्यदप्येतेन क्रमेण संखिद्यते तत् संखेदिमामम् । तथा चणक मुद्गादीनामुपस्कृतानां ये कङ्कटुकादय आमास्ते उपम्कृतामम् । पर्यायाम पुनरविपक्करर्स 30 फलादिकमुच्यते ॥ ८४० ॥ तच्चतुर्विधम् , तद्यथा---
इंधण धूमे गंधे, वच्छप्पलियामए अ आमविही ।
एसो खलु आमविही, नेयबो आणुपुबीए ॥ ८४१॥ १ सिध्यन्ते ई० त० का .. ||