________________
'भाप्यगाथाः ८३६-३७]
प्रथम उद्देशः ।
२६९
सं० लोभ सं० माया । सं० मान |सं० क्रोध
पु. वेद हास्य रति अरति भय शोक जुगुप्सा
स्त्रीवेद ।
न० वेद | अप्र० क्रोध | प्र. क्रोध | अप्र० मान | प्र० मान अप्र० माया | प्र. माया | अग्र० लोभ प्र० लोभ |
सम्यक्ल
मिश्र
मिथ्याल । | अन० क्रोध अन० मान अन० माया | अन० लोभ | एनां च क्षपकश्रेणिमध्यासीनेन येन यदनन्तानुबन्ध्यादिकं क्षपितं स तेन मुक्त इत्यवसातव्यम् । येऽपि श्रेणिद्वयमद्यापि न प्रतिपद्यन्ते किन्तु सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकानामन्यतमस्मिन् संयमे वर्तन्ते तेऽपि सज्वलनचतुष्टयवर्जीदशभिः कपायैर्मुक्ता इत्यवगन्तव्यम् । यत उक्तम्
बारसविहे कसाए, खविए उत्सामिए व जोगेहिं । लभइ चरित्तलंभो, तस्स विसेसा इमे पंच ॥ ( आव०नि० गा० ११३ ) ॥८३५॥ ततश्च
जे वि अ न सव्वगंथेहिं निग्गया होंति केइ निग्गंथा ।
ते वि य निग्गहपरमा, हवंति तेसिं खउज्जुत्ता ॥ ८३६ ॥ येऽपि च सरागसंयमवर्तिनः सर्वेभ्य आन्तरग्रन्थेभ्यो न निर्गताः तेऽपि 'तेषां सज्वलनक-10 पायादीनां 'क्षयोद्युक्ताः' उदयनिरोधोदयप्राप्तविफलीकरणाभ्यां क्षयकरणायोद्यताः सन्तः 'निग्रहपरमाः' आन्तरग्रन्थनिग्रहप्रधाना भवन्ति इत्यतो निर्ग्रन्था उच्यन्ते ।। ८३६ ॥ अपि च
कलुसफलेण न जुज्जइ, किं चित्तं तत्थ जं विगयरागो।
संते वि जो कसाए, निगिण्हई सो वि तत्तुल्लो ।। ८३७ ॥ कलुषयन्ति-सहजनिर्मलं जीवं कर्मरजसा मलिनयन्तीति “अच्” (सिद्ध० ५-१-४९) 15 इति अच्प्रत्यये कलुषाः-कषायास्तेषां यत् फलं-परुषभाषण-नयनमुखविकार-रौद्रध्यानानुबन्धादिकं तेन सह यद् “न युज्यते' न सम्वन्धमुपयाति 'विगतरागः' विशेषेण-अपुनर्भावेन गतो रागो यस्मात् स विगतरागः, क्षीणमोह इत्यर्थः । तत्र 'किं चित्रम् ?' किमाश्चर्यम् ? कषायलक्षणकारणाभावाद् न किञ्चिदित्यर्थः । यस्तु 'सतोऽपि' विद्यमानानपि कषायान् 'निगृहाति' उदीयमानानेव प्रथमतो निरुणद्धि कथञ्चिदुदयप्राप्तान् वा विकलीकरोति सोऽपि 'तत्तुल्यः' 20 वीतराग इव निकषायो मन्तव्यः, सतामपि कषायाणामसत्कल्पताकरणात् । अतः सरागसंयतोऽपि निर्ग्रन्थोऽभिधीयते इति ।। ८३७ ॥ अथ परः प्रश्नयति