________________
२६८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् ? यतस्तान् पुनरप्यनुचिनोति, मिथ्यात्वे तद्वीजसम्भवात् ; क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात् ; तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूपपद्यते । क्षीणदर्शनसप्तकोऽप्यप्रतिपतितपरिणामो म्रियमाणः सुरगतावेवोपपद्यते । प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति । तथा चोक्तम्
बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छत्तोदयओ, चिणिज्ज भुज्जो न खीणम्मि ॥ (विशे० गा० १३१६) तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे ।
उवरयपरिणामो पुण, पच्छा नाणामइ-गईओ ॥ ( विशे० गा० १३१७ ) स च यदि बद्धायुः प्रतिपद्यते ततो नियमाद् दर्शनसप्तके क्षीणे सत्युपरमते । अबद्धायुप्कः 10 पुनरनुपरत एव समस्तां श्रेणिं समापयति । स च खल्पसम्यग्दर्शनावशेष एवाप्रत्याख्यान-प्रत्या
ख्यानावरणकषायाष्टकं क्षपयितुं युगपदारभते । एतेषां च सङ्ख्येयतमं भागं क्षपयन् एताः पोडश प्रकृतीः क्षपयति । तद्यथा-नैरयिकगतिनाम तिर्यग्गतिनाम एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम नरकानुपूर्वीनाम तिर्यगानुपूर्वीनाम अप्रशस्त
विहायोगतिनाम स्थावरनाम सूक्ष्मनाम अपर्याप्तनाम साधारणनाम निद्रानिद्रां प्रचलाप्रचलां 15 स्त्यानगृद्धिमिति । ततोऽष्टानां कषायाणामवशेष क्षपयति । ततो नपुंसकवेदम् । ततः स्त्रीवेदम् । ततो हास्यादि षट्कम् । ततः पुरुषवेदं त्रिधा कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयं तु खण्डं सञ्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः । स्त्री-नपुंसकयोः प्रतिपत्रोरुपशमश्रेणिन्यायो वक्तव्यः । क्रोधादींश्च सज्वलनान् प्रत्येकमन्तर्मुहूर्त्तनानेनैव खण्डत्रयरचनान्यायेन क्षपयति ।
श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तप्रमाण एव द्रष्टव्यः । केवलं बृहत्तरमत्रान्तर्मुहूर्तम् , अन्तर्मु20 हू नामसङ्ख्येयमेदत्वात् । लोभचरमखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथक् पृथक् क्षपयति ।
चरमसङ्ख्येयखण्डं पुनरसङ्ख्येयानि खण्डानि करोति । तेषामपि समये समये एकैकं क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिवादरसम्पराय उच्यते, तत ऊर्ध्वमनिवृत्तिबादरसम्परायो यावत् सज्वलनलोभस्य द्विचरमसङ्ख्येयखण्डम् , चरमसङ्ख्येयखण्डस्य पुनरसङ्ख्येयानि खण्डानि क्षपयन्
सूक्ष्मसम्पराय उच्यते, तत ऊर्द्ध क्षीणमोहच्छद्मस्थवीतरागो यथाख्यातचारित्री भवति । ततो यथा 25 कश्चिद् महापुरुषो बाहुभ्यामपारगम्भीरां महानदीं ती| स्ताघमासाद्य क्षणमेकं विश्राममादत्ते
एवमयमपि दुस्तरं मोहसागरं तीर्खा सञ्जातपरिश्रमो विश्राम्यतीति । ततश्छद्मस्थवीतरागत्वसम्बन्धिनि समयद्वयेऽवशिष्यमाणे प्रथमे समये निद्रां १ प्रचला २ देवगति ३ देवानुपूर्वी ४ वैक्रियशरीरनामकर्म ५ वर्षभनाराचसंहननं मुक्त्वा शेषाणि संहननानि १० षष्णां संस्थानानां मध्ये यस्मिन् व्यवस्थितस्तदेकं मुक्त्वा शेषाणि संस्थानानि १५ आहारकशरीरनाम १६ यद्यती30 र्थकरः प्रतिपत्ता ततस्तीर्थकरनामकर्मापि १७ इत्येवं सप्तदश प्रकृतीः क्षपयति । ततो द्वितीये
समये पञ्चप्रकारं ज्ञानावरणं चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायं च क्षपयित्वा विमलकेवलश्रियमवाप्नोतीति । स्थापना चेयम्---