________________
उपशमश्रेणिः
२६६
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ यः 'यतः क्रोधादेर्निर्गतो अनिर्गतो वेति ॥ ८३३ ॥ अथ केयमुपशमश्रेणिः १ का वा क्षपकश्रेणिः ? इत्याशङ्कापनोदाय प्रथमत उपशमश्रेणिमाह
अण दंस नपुंसि-स्थीवेय च्छकं च पुरिसवेयं च ।
दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ।। ८३४ ॥ 5 इहोपशमश्रेणेः प्रारम्भकोऽप्रमत्तसंयतः, समाप्तौ पुनः प्रमत्तसंयतोऽविरतसम्यग्दृष्टिर्वा भवेत् । यत उक्तम्
उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ उ।
पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा ॥ (विशे० गा० १२८५) अविरत-देशविरत-प्रमत्ता-ऽप्रमत्तसंयतानामन्यतमः प्रतिपद्यते इत्येके । प्रतिपत्तिक्रमश्वायम् ---- 10“अण"ति प्रथमतो युगपदन्तर्मुहूर्तेनानन्तानुबन्धिनः क्रोध-मान-माया-लोभानुपशमयति । ततः 'दर्शन' मिथ्यात्व-सम्यग्मिथ्यात्व-सम्यग्दर्शनभेदात् त्रिविधमपि युगपदुपशमयति । सर्वत्र युगपदुपशमनकालोऽन्तर्मुहूर्तप्रमाणो द्रष्टव्यः । ततो यदि पुरुषः प्रारम्भकस्ततः प्रथमं नपुंसकवेदम् , पश्चात् स्त्रीवेदम् , ततो हास्य-रत्य-ऽरति-शोक-भय-जुगुप्साषट्कम् , ततः पुरुषवेदम् ; अथ स्त्री
प्रारम्भिका ततः प्रथमं नपुंसकवेदम् , पश्चात् पुरुषवेदम् , ततो हास्यादिषट्कम् , ततः स्त्रीवेदम् ; 15 अथ नपुंसक एव प्रारम्भकस्ततः प्रथमं स्त्रीवेदम् , पश्चात् पुरुषवेदम् , ततः पटकम् , ततो नपुंसकवेदम् । तथा 'द्वौ द्वौ' अप्रत्याख्यान-प्रत्याख्यानरूपौ क्रोधादिको 'एकान्तरितौ' सज्ज्वलनक्रोधाद्यन्तरितौ 'सदृशौ' तुल्यावुपशमय्य सदृशमेवोपशमयति । इयमत्र भावना-अप्रत्यास्त्यान-प्रत्याख्यानौ क्रोधौ क्रोधत्वेन परस्परं सदृशौ युगपदुपशमयति, ततः सञ्जवलनक्रोधमेकाकि
नमेव; ततोऽप्रत्याख्यान-प्रत्याख्यानौ मानौ, ततः सज्ज्वलनमानम् ; ततोऽप्रत्याख्यान-प्रत्याख्याने 20 माये, ततः सज्वलनमायाम् ; ततोऽप्यप्रत्याख्यान-प्रत्याख्यानौ लोभौ, ततः सज्वलनलोभम् । तं
चोपशमयस्त्रिधा करोति, आद्यौ द्वौ भागौ युगपदुपशमयति, तृतीयं भागं सद्ध्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः सङ्ख्येयखण्डानां चरमखण्डमसङ्ख्येयानि खण्डानि करोति, ततः समये समये एकैकं खण्डमुपशमयति । इह च दर्शनसप्तके
उपशान्ते सति निवृत्तिबादरः, तत ऊर्द्धमनिवृत्तिबादरो यावद् लोभस्य द्विचरमं सङ्ख्येयखण्डम् , 25 चरमसङ्ख्येयखण्डस्य पुनरसहोयखण्डान्युपशमयन् सूक्ष्मसम्पराय उच्यते । स्थापना
१ "ततो अपच्चक्खाणं च लोभं पच्चक्खाणावरणं च लोभं जुगवं उवसामेति, ततो संजलणं लोभं संखेजाणि खंडाणि करोति, पढमेल्लं च खंडं पउवसामितो बादरसंपरायो य उवसामओ लब्भति, एगेगं खंडं उवसातो जाधे संखेजतिमं अंतिल्लं खंडं पत्तो भवति ताधे ते असंखेजाणि खंडाणि करोति, पढमिलं च खंडयं च पउवसामितो सुहमसंपराओ य उवसामओ लब्भति, ममए समए एक्केवं खंडं उवसामेति, जदा तं अंतिहं असंखेज्जतिमं खंडं उवसामियं भवति तदा उवसामियणियंठो भवति" इति चूर्णिः॥