________________
भाप्यरथाः ८२८-३३] प्रथम उद्देशः ।
२६५ बोधरूपम् । तच्च द्विविधं वा त्रिषष्ट्यधिकशतत्रयभेदं वा अपरिमितभेदं वा । तत्रानाभिग्रहिकमाभिन हेकं चेति द्विविधम् । अनाभिग्रहिकं पृथिव्यादीनाम् । आभिग्रहिकं तु षड्विधम्
नत्थि न निच्चो न कुणइ, कयं न वेएइ नत्थि निव्वाणं ।
नत्थि य मोक्खोवाओ, छबिह मिच्छत्तऽभिग्गहियं ॥ ( कल्पबृहद्भाप्ये) त्रिपष्टयधिकशतत्रयविधं पुनरिदम्
असियसयं किरियाणं, अकिरियवाईण होइ चुलसीई ।
अण्णाणी सत्तट्टी, वेणइयाणं च बत्तीसा ॥ ( सूत्रकृ० नि० गा० ११९) अपरिमितभेदं तु
जावइया नयवाया, तावइया चेव होंति परसमया । जावइया परसमया, तावइया चेव मिच्छत्ता ॥
___10 एवमनेकविकल्पमपि सामान्यतो मिथ्यात्वशब्देन गृह्यते इति सप्तमो भेदः ७ । वेदस्त्रिविधः स्त्री-पुं-नपुंसकभेदात् । तत्र यत् स्त्रियाः पित्तोदये मधुराभिलाष इव पुंस्यभिलाषो जायते स स्त्रीवेदः, यत् पुनः पुंसः श्लेप्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति स पुंवेदः, यत्तु पण्डकस्य पित्त-श्लेप्मोदये मजिकाभिलाषवद्रुभयोरपि स्त्री-पुंसयोरभिलाषः समुदेति स नपुंसकवेद इति त्रयोऽप्येक एव भेदः ८ । तथा यदमनोज्ञेपु शब्दादिविषयेषु संयमे वा जीवस्य चित्तो-15 द्वेगः सा अरतिः ९ । यत् पुनस्तेप्वेव मनोज्ञेषु अर्सयमे वा रमणं सा रतिः १०। यत्तु सनिमित्तमनिमित्तं वा हसति तद् हास्यम् ११ । प्रियविप्रयोगादिविह्वलचेतोवृत्तिराक्रन्दनादिकं यत् करोति स शोकः १२ । सनिमित्तमनिमित्तं वा यद् बिभेति तद् भयम् १३ । यत् पुनरस्नाना-ऽदन्तपवन-मण्डलीभोजनादिकमपरं वा मृतकलेवर-विष्टादिकं जुगुप्सते सा जुगुप्सा १४ । एष चतुर्दशविधोऽप्याभ्यन्तरग्रन्थ उच्यते ॥ ८३१ ॥ प्रस्तुतयोजनामाह
20 सावजेण विमुक्का, सभितर-बाहिरेण गंथेण । [उ.नि. २ ४३]
निग्गहपरमा य विदू, तेणेव य होंति निग्गंथा ।। ८३२ ॥ सावद्यः-सपापः कर्मोपादाननिबन्धनत्वाद् यो ग्रन्थस्तेन साभ्यन्तर-बाह्येन ये मुक्तास्ते निर्ग्रन्था उच्यन्ते, येऽपि चाऽऽन्तरग्रन्थेन न सर्वथा मुक्तास्तेऽपि; येन विद्वांसः क्रोधादिदोषवेदिनस्तथा 'निग्रहपरमाः' तन्निर्जयप्रधानाः, तेनैव कारणेन ते निम्रन्था भवन्ति ॥ ८३२ ॥ 25 अथाऽऽन्तरग्रन्थमधिकृत्य ये मुक्ता ये चामुक्तास्तदेतदभिधित्सुराह
केई सव्यविमुक्का, कोहाईएहि केइ भइयव्वा ।
सेढिदुगं विरएत्ता, जाणसु जो निग्गओ जत्तो ॥ ८३३ ॥ 'क्रोधादिभिः' आन्तरग्रन्थैः केचित् ‘सर्वविमुक्ताः' सर्वैरपि विप्रमुक्ताः, केचित् पुनः 'भक्तव्याः' विकल्पनीयाः, कैश्चिद् मुक्ताः कैश्चिदपि न मुक्ता इत्यभिप्रायः । अत्र शिप्यः 30 प्राह-कथं नु नामेदं ज्ञास्यते 'अमी सर्वथा मुक्ता अमी च न मुक्ताः' ? इति, उच्यते'श्रेणिद्विकम्' उपशमश्रेणि-क्षपक श्रेणिलक्षणं 'विरचय्य' यथोक्तपरिपाट्या स्थापयित्वा ततो जानीहि १°न्यशब्देन मो० ले० ॥ २ सावजगंथमुक्का ता० ॥