SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -10 २६४ सनियुक्ति लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ मित्यर्थः । त्रिविधमपि क्रमेणोदाहरति—“भूमिघर''मित्यादि । खातं भूमिगृहम् । उच्छ्रितं प्रासादः, उपलक्षणत्वादन्यदप्येकभूम-द्विभूमादिकं गृहमुच्छ्रुितम् । यत् पुनः प्रासाद-गृहादिकं भूमिगृहेण सम्बद्धं तद् भवेत् 'उभयं' खातोच्छ्रितम् ॥ ८२७ ॥ घडिएयरं खलु धणं, सणसत्तरसा विया भवे धन्नं । तण-कट्ठन्तेल्ल-घय-मधु-वत्थाई संचओ वहुहा ॥ ८२८॥ __यद् घटितम् 'इतरद् वा' अघटितं सुवर्णादिकं तद् धनमुच्यते । तथा शणं सप्तदशं येषां तानि शणसप्तदशानि वीजानि धान्यं भवेदिति । तानि चामूनि-- धान्यसप्त व्रीहिर्यवो मसूरो, गोधूमो मुद्ग-माष-तिल-चणकाः ।। दशकम् । अणवः प्रियङ्गु-कोद्रवमकुष्ठकाः शालिराढक्यः ॥ किञ्च कलाय-कुलत्थी, शणसप्तदशानि बीजानि । इति । तथा तृण-काष्ठ-तैल-घृत-मधु-वस्त्रादीनाम् आदिशब्दाद् बुस-पलालादीनां सङ्घहरूपः सञ्चयो बहुधा द्रष्टव्य इति ॥ ८२८ ॥ सहजायगाइ मित्ता, नाई माया-पिईहिं संबद्धा । ससुरकुलं संजोगो, तिणि वि मित्तादयो छट्ठो ॥ ८२९ ॥ 15 सहजातकादयः सुहृदो मित्राणि, आदिग्रहणात् सहवर्द्धितकाः सहपांशुक्रीडितकाः सहदार दर्शिनश्चेति । ज्ञातयो मातृ-पितृसम्बद्धाः, मातृकुलसम्बद्धाः पितृकुलसम्बद्धाश्चेत्यर्थः । तत्र मातृकुलसम्बद्धाः मातुल-मातामहादयः, पितृकुलसम्बद्धाः पितृव्य-पितामहादयः । श्वसुरकुलं संयोगोऽभिधीयते, किमुक्तं भवति?-श्वसुरकुलपाक्षिका ये केचित् श्वसुर-श्वश्रू-शालकादयस्तेषां सम्बन्धः संयोग उच्यते । एते मित्रादयस्त्रयोऽपि पक्षाः षष्ठो ग्रन्थः ।। ८२९ ॥ 20 जाणं तु आसमाई, पल्लंकग-पीढिगाइ अट्ठमओ। दासाइ नवम दसमो, लोहाइउवक्खरो कुप्पं ॥ ८३० ॥ यानमिति जातावेकवचनम् , ततोऽयमर्थः-यानानि पुनरवादीनि, आदिशब्दाद् गजवृषभ-रथ-शिबिकादीनि । तथा पल्यङ्कादीनि शयनानि, पीठिकादीनि च आसनानि, एप शय ना-ऽऽसनरूपोऽष्टमो ग्रन्थः । दासादिकः सर्वोऽप्यनुजीविवर्गो नवमो ग्रन्थः । तथा लोहादिक 25 उपस्करः कुप्यमुच्यते । तत्र लोहोपस्करो लोहमयकवल्ली-कुद्दालिका-कुठारादिकः । आदिशव्दाद् मार्तिकोपस्करो घटादिकः, कांस्योपस्करः स्थाल-कच्चोलकादिक इत्यादिकः सर्वोऽपि परिगृह्यते । एष दशमो ग्रन्थः ।। ८३० ॥ प्ररूपितो दशविधोऽपि बाह्यग्रन्थः, सम्प्रति चतुर्दशविधमभ्यन्तरं ग्रन्थमाहचश- कोहो १ माणो २ माया ३, लोभो ४ पेजं ५ तहेव दोसो अ६। प्रकारो- 30मिच्छत्त ७ वेद ८ अरइ ९, रइ १० हास ११ सोगो १२ भय १३ दुगुंछा १४ ॥८३१॥ [उ.नि.२४१] क्रोधो मानो माया लोभश्चेति चत्वारोऽपि प्रतीताः ४ । प्रेमशब्देनाभिप्वङ्गलक्षणो रागोऽभिधीयते ५ । दोषशब्देन त्वप्रीतिकलक्षणो द्वेषः ६ । 'मिथ्यात्वम्' अर्हत्प्रणीततत्त्वविपरीताव१ तू रहमाई ता० ॥ २ °टारिकादि ३० ॥ ऽभ्यन्तरग्रन्थः
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy