________________
भायगाथाः ८१९-२७] प्रथम उद्देशः ।
२६३ उच्यते येन क्षेत्र-वास्त्वादिना क्रोधादिना वा अमी जन्तवः कर्मणा सहाऽऽत्मानं ग्रन्थयन्ति । तं च भाप्यकार एव सविस्तरं व्याख्यानयति
सो वि य गंथो दुविहो, बज्झो अभितरो अबोधव्यो। ___अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो ॥ ८२३ ॥ सोऽपि च भावग्रन्थो द्विविधः, तद्यथा-बाह्योऽभ्यन्तरश्च बोद्धव्यः । तत्राभ्यन्तरो ग्रन्थश्च-5 तुर्दशविधो वक्ष्यमाणः । वाह्यः पुनर्ग्रन्थो 'दशधा' दशप्रकारो वक्ष्यमाण एव ॥ ८२३ ॥ यदि नामैवं द्विविधो ग्रन्थस्ततो निर्ग्रन्थ इति किमुक्तं भवति ? इत्याह
सहिरन्नगो सगंथो, नत्थि से गंथो त्ति तेण निग्गंथो ।
अहवा निराऽवकरिसे, अवचियगंथो व निग्गंथो ॥ ८२४॥ सहिरण्यक इति “एकग्रहणे तज्जातीयग्रहणम्” इति न्यायाद् हिरण्य-सुवर्णादिबाह्यग्रन्थसहित 10 उपलक्षणत्वाद् आन्तरग्रन्थयुक्तश्च सग्रन्थ उच्यते । 'नास्ति' न विद्यते "से" तस्य तथाविधो द्विविधोऽपि ग्रन्थः स निर्ग्रन्थः । अथवा निर्ग्रन्थ इत्यत्र यो निशब्दः सः 'अपकर्षे' अपचये वर्तते, ततश्चापचितः-प्रतनूकृतो ग्रन्थो बाह्य आभ्यन्तरश्च येन स निर्ग्रन्थ उच्यते ॥ ८२४ ॥
अथ यदुक्तं "बाह्यो ग्रन्थो दशधा" ( गा० ८२३) इति तद् विवरीषुराहखेत्तं १ वत्थु २ धण.३ धन्न ४ संचओ ५ मित्त-णाइ-संजोगो ६। 15 दशधा
बाह्यो जाण ७ सयणा-ऽऽसणाणि य ८, दासी-दासं च ९ कुवियं च १०॥ ८२५॥
'क्षेत्रं' धान्यनिप्पत्तिस्थानम् १, 'वास्तु' भूमिगृहादि २, 'धनं' सुवर्णादि ३, 'धान्यं' बीजातिः ४, 'सञ्चयः' तृण-काष्ठादिसङ्ग्रहः ५, मित्राणि-सुहृदो ज्ञातयः-खजनाः संयोगःश्वसुरकुलसम्बन्ध इति त्रिभिरप्येक एव ग्रन्थः ६, 'यानानि' वाहनानि ७, 'शयना-ऽऽसनानि च' पल्यक-पीठकादीनि ८, दास्यश्च दासाश्च दासी-दासम् ९, 'कुप्यं च' उपस्कररूपम् १० इति । 20 एष दशविधो ग्रन्थः ॥ ८२५ ।। अथैनमेव प्रतिभेदं यथाक्रमं व्याचष्टे
खेत्तं सेउं केउं, सेयरहट्टाइ केउ वरिसेणं ।
भूमिघर वत्थु सेउं, केउं पासाय-गिहमाई ॥८२६ ॥ क्षेत्रं द्विधा-सेतु केतु च । तत्र “सेयऽरहट्टाइ"त्ति अरहट्टादिना सिच्यमानं यद् निष्पद्यते तत् सेतु, अत्राऽऽदिशब्दात् तडागादिपरिग्रहः । यत् पुनः 'वर्षेण' मेघवृष्ट्या निप्पद्यते 25 तत् केतु । वास्त्वपि सेतु-केतुभेदाद् द्विधा । भूमिगृहं सेतु, प्रासाद-गृहादिकं केतु । तत्र नरेन्द्राध्यासितः सप्तभूमादिरावासविशेषः प्रासादः, गृहं शेषजनाधिष्ठितमेकभूमादिकम् , आदिग्रहणात् कुटी-मण्डपा-उपवरकादिकं परिगृह्यते ॥ ८२६ ॥
तिविहं च भवे वत्थु, खायं तह ऊसियं च उभयं च । भूमिघरं पासाओ, संबद्धघरं भवे उभयं ॥ ८२७ ॥
30 अथवा वास्तु त्रिविधं भवेत् , तद्यथा-खातं तथा उच्छ्रितं च 'उभयं च' खातोच्छित१ दासो दासी य कु° ता० ॥ २ भा० कां० विनाऽन्यत्र-बीजजाति ४ डे. त. ले। बीजादि ४ मो० ॥ ३ °पवारिकामो० ले. कां ॥
ग्रन्थः