________________
२६२
सनिर्युक्ति-लघुभाप्य वृत्तिके वृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १
संयोगे समवाये सामान्ये विशेषे चेति चतुर्धा प्रतिषेधो नकारस्य भवति । स च प्रत्येकमतीता-ऽनागत-वर्त्तमानलक्षणकालत्रिकविषयत्वादेकैकस्त्रिविध इति सर्वसङ्ख्यया द्वादशविधो नकारप्रतिषेधः । यत्र च क्वापि नकारस्योपयोगो भवति तत्रामीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति ॥ ८१८ ॥ अथ संयोगादिषु यथाक्रमं प्रतिषेधमुदाहरति-
नत्थि घरे जिणदत्तो, पुव्वपसिद्धाण तेसि दोन्हं पि । संजोगो पडिसिज्झइ, न सव्वसो तेसि अत्थितं ॥ ८१९ ॥ समवाए खरसिंगं, सामने नत्थि चंदिमा अन्नो ।
नत्थि य घडप्पमाणा, विसेसओ होंति मुत्ताओ ।। ८२० ॥
'नास्ति गृहे जिनदत्तः' इत्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोर्गृह - जिनदत्तयोर्द्वयोरपि 'संयोगः ' 10 सम्बन्धमात्रं प्रतिषिध्यते न पुनः सर्वथैव तयोरस्तित्वमिति संयोगप्रतिषेधः ॥ ८१९ ॥
समवायप्रतिषेधे तु खरशृङ्गमुदाहरणम् — खरोऽप्यस्ति शृङ्गमप्यस्ति परं खरशिरसि श्रृङ्गं नास्तीति 'समवाय: ' एकत्र संश्लेष उभयोरपि प्रतिषिध्यते इति समवायप्रतिषेधः । सामान्यप्रति - षेधो यथा—- नास्त्यस्मिन् स्थानेऽन्य ईदृशश्चन्द्रमा इति । विशेषमाश्रित्य पुनरयं प्रतिषेधः न सन्ति घटप्रमाणाः 'मुक्ताः' मुक्ताफलानीत्यर्थः, सन्ति मुक्ताफलानि परं न घटप्रमाणानीति घट15 प्रमाणत्वलक्षणस्य विशेषस्य प्रतिषिध्यमानत्वाद् विशेषप्रतिषेधः ॥ ८२० ॥
5
भावितः संयोगादिचतुष्टयविषयः प्रतिषेधः । सम्प्रति कालत्रयविषयं तमेव भावयति-dassi न भविस्स, नेव घडो अत्थि इति तिहा काले । पडिसेहेइ नकारो, सज्जं तु अकार - नोकारा ।। ८२१ ॥
नैवासीत् न भविष्यति नैवास्ति घट इति यथाक्रममतीता - ऽनागत - वर्त्तमानभेदात् त्रिधा काल20 विषयं वस्तु नकारः प्रतिषेधयति । अकार - नोकारौ तु 'सद्यः' वर्त्तमानकालमेव प्रायः प्रतिषेधयतः, यथा — अंकरोषि त्वम्, नो कल्पते तालप्रलम्बं प्रतिग्रहीतुमित्यादि । माकारस्य द्विधकालप्रतिषेधकत्वं पूर्वमुक्तमेवेति न पुनरुच्यते ॥ ८२१ ॥
इत्थं सप्रपञ्चं प्रतिषेधमुपवर्ण्य प्रस्तुतार्थ योजनामाह
25
जम्हा खलु पडिसेहं, नोकारेणं करेति णऽण्ोणं ।
तम्हा उ होज गहणं, कयाइ अववायमासज्ज ॥ ८२२ ॥
यस्मात् खलु प्रतिषेधं नोकारेणैव कुर्वन्ति भगवन्तः सूत्रकृतो नान्येन नकारादिना तत एव ज्ञायते—भवेद् ग्रहणं कदाचित् तालप्रलम्बस्यापवादपदमासाद्येति ॥ ८२२ ॥
व्याख्यातमादिनकारपदम् । अथ ग्रन्थपदम् — तस्य च नामादिभेदाच्चतुर्धा निक्षेपः । तत्र नाम-स्थापने गतार्थे । द्रव्यग्रन्थस्त्रिधा – सचित्ता - ऽचित्त - मिश्रभेदात् । तत्र सचित्तश्चम्पकमाले30 त्यादि, अचित्त एकावलिहारादिकः, मिश्रः शुष्कपत्रमिश्रिता प्रसूनमाला । भावग्रन्थस्तु स
१ पस्य प्र° मो० ले० कां० ॥ २ “आह माकारस्य कालोपदेशः कृतः, यथा - द्विविधकालप्रतिषेधक इति, न तु शेषाणाम्, तस्मादुच्यतां शेषाणां कालनियम उच्चते ? ण वा ?" इत्यवतरणं चूर्णो ॥ ३ अकारोषि डे० भो० ले० ॥ ४ 'मादिनोका' मो० ले ॥ ५ °त्यादिमाला | अचि मो० ० ॥