SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भाप्यगाथाः ८१४-१८ ] प्रथम उद्देशः । २६१ तम् ॥ ८१४ || तदेवमुक्तः सङ्क्षेपतः सूत्रार्थः । सम्प्रति विस्तरार्थं सूत्रस्पर्शिक नियुक्त्या प्रतिपादयितुमाह आइनकारे गंथे, आमे ताले तहा पलंबे य । भिन्नस्स वि निक्खेवो, चउक्कओ होइ एक्केके ॥। ८१५ ।। आदौ नकार आदिकारः स विचारणीयः । तथा ग्रन्थपदस्य आमपदस्य तालपदस्य पल - 5 म्बपदस्य भिन्नपदस्यापि च निक्षेपः 'चतुष्कः' नाम- स्थापना - द्रव्य भावरूपः कर्त्तव्यो भवति 'एकै - कैस्मिन्' एकैकपदविषयः ॥ ८१५ ॥ तत्राऽऽदिनकारपदं वित्रियते । शिष्यः प्रश्नयति-- योऽयमादौ प्रतिषेधः स नकारेण भवतु मा नोकारेण, तद्यथा - "न कप्पइ निम्गंथाण वा निम्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" । एवं च क्रियमाणे सूत्रं लघु भवति, “मात्रयाऽपि च सूत्रस्य लाघवं महानुत्सवः" इति विद्वत्प्रवादः, नोशब्देन पुनः प्रतिषेधे विधीयमाने सूत्रगौरवं भवति । अत्राचार्यः प्रतिवक्ति — भद्र ! कारणमत्रास्ति यतो नोकारेण प्रतिषेधः क्रियते । आह— किं पुनस्तत् कारणम् ? उच्यतेपडिसेहो उ अकारो, मोकारो नो अ तह नकारो अ । तभाव दुविहकाले, देसे संजोगमाईसु || ८१६ ॥ प्रतिषिध्यतेऽनेनेति 'प्रतिषेधः ' प्रतिषेधको वर्णः, स चतुर्धा --अकारो माकारो नोकारस्तथा नकारश्च । तत्राऽकारस्तद्भावप्रतिषेधं करोति । माकारः पुनर्द्विविधकालविषयं प्रतिषेधम्, तद्यथा— प्रत्युत्पन्नविषयम् अनागतविषयं च । नोकारो देशप्रतिषेधम् । नकारः पुनः 'संयोगादिषु ' संयोग- समवाय-सामान्य-विशेषचतुष्टयप्रतिषेधं करोति ॥ ८१६ ॥ तत्राकार-माकार- नोकाराणामुदाहरणान्याह - : संजोगे समवाए, सामने खलु तहा विसेसे अ । कालतिए पडिसेहो, जत्थुवओगो नकारस्स ।। ८१८ ॥ .10 १ यः । " गंधे" त्ति ग्रन्थस्य भेदा वक्तव्याः । तथा आमपदस्य भा० ॥ २ कः' इति एकैकपद° भा० ॥ ३ सूत्रलाघवं भव' भा० ॥ ४ सूत्रे गौ० भा० ॥ ५ मकर- नोकार तह ता० ॥ ६- एतचिह्नान्तर्गतः पाठः भा० त० डे० नास्ति ॥ ७°व्यं द्रव्यादिकम् मो० ले० कां० ॥ . 15 निदरिसणं अघडोऽयं मा य घडं भिंद मा य भिंदिहिसि । नो उ घडो घडदेसो, तव्विवरीयं च जं दव्वं ॥ ८१७ ॥ - निर्देर्शनमिति जातावेकवचनम्, ततोऽमीषां प्रतिषेधकवर्णानां यथाक्रमं निदर्शनानि । अकारस्य तद्भावप्रतिषेधे निदर्शनं यथा -- अघटोऽयमिति, न घटो अघटः, घटव्यतिरिक्तः पटादिकः पदार्थ इत्यर्थः । माकारो वर्तमाना - ऽनागतकालप्रतिषेधको यथा— मा घटं भिन्द्धि, मा. घटं भेत्स्यसि, चकारौ समुच्चयार्थी । नोकारो देशप्रतिषेधकस्तदन्यभावसूचको वा यथा— नोघटइत्युक्ते घटैकदेशः कपालादिकोऽवयवः, तद्विपरीतं वा अन्यद् द्रव्यं पटादिकम् ॥ ८१७ ॥ अथ संयोगादिविषयं नकारप्रतिषेधं भावयति 20 30
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy