________________
२६०
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ स्यात् ततो भवेत् ताकीना प्रतिषेधकत्वादमङ्गलमित्येषा कल्पना । यस्मात् पुनरत्र नोशब्दो देशप्रतिषेध एव वर्तते अतः परिफल्गुरियं भवदीया कल्पनेति । यद्वा 'नन्दी च' पञ्चप्रकारज्ञानरूपा भावमङ्गलमुच्यते, तच्च. "नंदी य मंगलट्टा' (गा० ३) इत्यादिना ग्रन्थेन पीठिकायां प्रोक्त
मेव । यदि नाम प्रोक्तं ततः किमायातम् ? इत्याह—'तस्माच्च' नन्दीरूपाद् भावमङ्गलात् 'अन5 न्यत्' अपृथग्भूतमिदं सूत्रम् , अस्यापि श्रुतत्वात् श्रुतस्य च ज्ञानपञ्चकान्तर्गतत्वादिति भाव इति;
अतोऽपि माङ्गलिकमिदम् ॥ ८१३ ॥ तदेवं स्थापितमनेकधा भाप्यकृता सूत्रस्य माङ्गलिकत्वम् । संम्प्रति नियुक्तिकृद् नोशब्दाभिधेयस्य प्रतिषेधस्य निक्षेपमनन्तरोक्तमर्थं च सूचयन्नाह
पडिसेहम्मि उ छकं, अमंगलं सो त्ति ते भवे बुद्धी ।
पावाणं जदकरणं, तदेव खलु मंगलं परमं ॥ ८१४ ॥ 10 'प्रतिषेधे' प्रतिषेधविषयं 'षट्कं' नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावलक्षणं निक्षेपणीयम् । तत्र नाम्नः प्रतिषेधः 'न वक्तव्यममुकं नाम' इतिलक्षणः, यथा--
अज्जए पज्जए वा वि, वप्पो चुल्लपिउ ति य । माउलो भायणिज त्ति, पुत्ता नत्तुणिय त्ति य ॥ (दश० अ० ७ गा० १८)
हे हो हले त्ति अन्ने त्ति, भट्टा सामिय गोमिय । 15 होल गोल वसुल त्ति, पुरिसं नेवमालवे ॥ (दश० अ० ७ गा० १९) इत्यादि । स्थापना आकारो मूर्तिरिति पर्यायाः, तस्याः प्रतिषेधो यथावितहं पि तहामुत्तिं, जो नहा भासए नरो।
सो वि ता पुट्टो पावेणं, किं पुणं जो मुसं वए? ॥ (दश० अ० ७ गा० ५) द्रव्यप्रतिषेधो ज्ञशरीर-भव्यशरीरव्यतिरिक्तः पुनरयम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंवे अभिन्ने पडिगाहित्तए त्ति ।
क्षेत्रप्रतिषेधो यथा--नो कप्पइ निग्गंधाण वा निग्गंथीण वा [ रातो वा वियाले वा ] अद्धाणगमणं एत्तए (उ० १ सू० ४७)। कालप्रतिषेधो यथा
अत्थंगयम्मि आइच्चे, पुरत्था य अणुग्गए ।
आहारमइयं सवं, मणसा वि न पत्थए ॥ (दश० अ० ८ गा० २८) भावप्रतिषेध औदयिकभावनिवारणरूपो यथा---
कोहं माणं च मायं च, लोभं च पाववडणं । वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥ (दश० अ० ८ गा० ३७) इत्यादि।
अत्र च सूत्रे द्रव्यप्रतिषेधेनाधिकारः । तथा 'स इति' प्रतिषेधोऽमङ्गलमिति 'ते' तव बुद्धि30 भवेत् सा चायुक्ता, यतः पापानां यदकरणं तदेव खलु परमं भङ्गलं ज्ञातव्यमिति पूर्वमेव भावि
१“अथेदानीमेनमेवार्थ सूत्रस्पर्शिकनियुक्त्या विस्तारयति' इति चूर्णौ ॥ २ "भावप्रतिषेधेनेहाधिकारः, शेषास्तदनुषङ्गेण व्याख्याताः । भावप्रतिषेधेऽपि एकेन्द्रियवनस्पतिप्रतिषेधेनाधिकारः” इति चूर्णिकाराः॥
25