________________
माप्यगाथाः ८०८-१३] प्रथम उद्देशः ।
२५९ पाशणं समणुण्णा, न चेव सबम्मिं अत्थि समयम्मि।
तं जइ अमंगलं ते, कयरं णु हु मंगलं तुझं ॥ ८१०॥ 'पापानां' प्राणिवधादीनां समनुज्ञा नैवास्ति सर्वस्मिन्नपि 'समये' सिद्धान्ते, न केवलमत्रैव सूत्रे इत्यपिशब्दार्थः, किन्तु सर्वत्रापि प्रतिषेध एव; ततो यदि ते 'तत्' तथाविधमपि पापप्रतिषेधकं सूत्रममङ्गलम् ततः कतरद् 'नुः' इति वितर्के 'हुः' निश्चये तव मङ्गलं भविष्यति ?, म5 किमपीत्यर्थः ।। ८१० ॥ किञ्च
पावं अमंगलं ति य, तप्पडिसेहो हु मंगलं नियमा।
निक्खेवे वा वुत्तं, जंवा नवमम्मि पुवम्मि ॥ ८११॥ पापं नियमादमङ्गलम् , तत्प्रतिषेधः पुनर्नियमाद् मङ्गलम् , यत एवं ततो माङ्गलिकमेतत् सूत्रमिति । तथा चात्र प्रयोगः-माङ्गलिकं "नो कप्पइ निग्गंथाण वा निमगंथीण वा” (उ० १ 10 सू० १) इत्यादि सूत्रम् , पापप्रतिषेधकत्वात् , इह यद् यत् पापप्रतिषेधकं तत् तद् माङ्गलिकम् , यथा “सव्वे जीवा न हंतव्वा' इत्यादि वचनम् , पापप्रतिषेधकं चेदं सूत्रम् , तस्माद् माङ्गलिकम् । अथवा 'निक्षेपे' नामनिप्पन्नलक्षणे "छबिह १ सत्तविहे या २, दसविह ३ वीसइविहे य ४ बायाला ५।" (गा० २७४) इति पञ्चविधभावकल्पसम्बन्धायातस्य पञ्चकल्पस्यादौ वंदामि भद्दबाहुं, पाईणं चरिमसयलसुयनाणिं ।
16 सुत्तस्स कारगमिसिं, दसाण कप्पे य ववहारे ॥ (गा० १) इत्यधिकृतसूत्रकारनमस्काररूपं यद् मङ्गलमुक्तम् , यद्वा 'नवमे पूर्वे' प्रत्याख्याननामके प्रथमप्रारम्भे यद् मङ्गलाभिधानं कृतं तेनैवास्य सूत्रस्य माङ्गलिकत्वं मन्तव्यमिति ॥ ८११ ॥ अर्थत्थमपि स्थापितं सूत्रस्य माङ्गलिकत्वं खाग्रहाभिनिवेशादप्रतिपद्यमानं परमुपलभ्य सूरिरिदमाहअद्दागसमो साहू, एवं सुत्तं पि जो जहा वयइ ।
20 तह होइ मंगलममंगलं व कल्लाणदेसिस्स ॥ ८१२ ॥ "अद्दाग"त्ति आदर्शः-दर्पणस्तत्समः-तत्सदृशः साधुः । किमुक्तं भवति ?—यथा दर्पणे खरूपतो निर्मलेऽपि तत्तदुपाधिवशतः सुन्दरा-ऽसुन्दररूपाणि प्रतिरूपाणि विलोक्यन्ते तथा साधुमपि परममङ्गलभूतं दृष्ट्वा मङ्गलबुद्धिं कुर्वतः प्रशस्तचेतोवृत्तेर्भव्यस्य मङ्गलं भवति, तदितरस्य संक्लिष्टकर्मणो दूरभव्यादेरमङ्गलबुद्धिं कुर्वाणस्यामङ्गलं भवति । 'एवम्' आदर्श-साधुदृष्टान्तेन 25 सूत्रमपि स्वरूपतः परममङ्गलभूतं यो यथा वदति तस्य तथैव ‘मङ्गलममङ्गलं वा भवति' मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलम् अमङ्गलबुद्ध्या तु परिगृह्यमाणममङ्गलं भवतीत्यर्थः । एवं च माङ्गलिकेऽपि सूत्रे यदि त्वममङ्गलबुद्धिं करोषि भवतु तर्हि कल्याणद्वेषिणो भवतोऽमङ्गलम् ॥ ८१२ ॥ किञ्चान्यत्
जइ वा सव्वनिसेहो, हवेज तो कप्पणा भवे एसा ।
नंदी य भावमंगल, वुत्तं तत्तो अणनमिदं ॥ ८१३ ॥ वाशब्दः प्रत्यवस्थानस्य प्रकारान्तरोपदर्शनार्थः । यद्यत्र सूत्रे 'सर्वनिषेधः' सर्वथैव प्रतिषेधः १ अत्र टीकाकृदभिप्रायेण °म्मि वऽस्थि इति पाठः स्यात्, न चासौं क्वचिद् दृश्यत इति ॥