________________
२५८
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ आमशब्दश्च 'अनन्यत्वे' अनन्यभावे वर्त्तते । किमुक्तं भवति?-पूर्वकालभाविनीमपक्कावस्थामपेक्ष्य तदुत्तरकालभाविनी पक्वावस्था अन्या-अपराऽभिधीयते, तदभावरूपेऽनन्यत्वे अपक्कावस्थायामामशब्दो वर्त्तते । तलशब्दश्वोच्छ्ये भवति, द्राघीयःस्कन्धरूपेणोच्छ्येणोच्छितो यो वृक्षविशेषः स तलः-तालवृक्ष इति भावः; तत्र भवं तालं-तालवृक्षफलम् ॥ ८०७ ॥ 5 अथ प्रलम्बादिपदानि व्याचष्टे
पडिलंबणा पलं, अविदारिय मो वयंति उ अभिन्नं ।
अहवा वि दव्व भावे, तंपइगहणं निवारेइ ॥ ८०८ ॥ 'प्रतिलम्बनात्' प्रति-प्रकर्षेण लम्बत इति 'प्रलम्बम्' तस्यैव तलवृक्षस्य मूलम् । तथा यद अविदारितं 'मो' इति पादपूरणे तद् वदन्ति श्रुतवेदिनो अभिन्नम् । अथवा अभिन्नं द्विधा10 द्रव्यतो भावतश्च । तत्र द्रव्यतो यद् अविदारितम् , भावतः पुनरव्यपगतजीवम् । 'तत्प्रतिग्रहणं' तस्य-आमतालपलम्बस्याभिन्नस्यादानं निवारयति नोकार इति । एष सूत्रपदार्थः ॥ ८०८ ॥
अथ चालना-प्रत्यवस्थाने अभिधीयते । तत्र सूत्रगोचरमर्थगोचरं वा दूषणं चाल्यते-आक्षिप्यते यया वचनपद्धत्या सा चालना । तथा प्रति इति-परोक्तदूषणप्रातिकूल्येनावस्थीयते अन्तर्भूतण्य
र्थत्वादवस्थाप्यते युक्तिपुरस्सरं निर्दोषमेतदिति शिप्यवुद्धावारोप्यते येन तत् प्रत्यवस्थान-प्रति15 वचनम् । अत्र तावदियं चालना-ननु च सर्वाण्यपि शास्त्राणि माङ्गलिकाभिधानपुरस्सराणि प्रव
र्तन्ते, इदं तु सूत्रं भवद्भिः प्रतिषेधकत्वात् प्रथमत एवामाङ्गलिकमारब्धम् । तथा चात्र प्रयोगःअमाङ्गलिकमेतत् सूत्रम्, प्रतिषेधरूपत्वात् , इह यद् यत् प्रतिषेधरूपं तत् तद अमाङ्गलिकम् , यथा गन्तुं प्रस्थितस्य कस्यापि पुरुषस्य ‘मा यासीः' इत्यादि वचनम् , प्रतिषेधरूपं चेदं सूत्रम् , तस्मादमाङ्गलिकम् ; एवं परेणोक्ते सति सूरिः प्रत्यवस्थानमाह
जं गालयते पावं, मं लाइव कहममंगलं तं ते ।
जा य अणुण्णा सव्वा, कहमिच्छसि मंगलं तं तु ॥ ८०९॥ इह मङ्गलशब्दस्य निरुक्तं पूर्वसूरिभिरित्थमभिधीयते—मां 'लाति' दुर्गतौ पतन्तं गृह्णाति पापं च गालयतीति मङ्गलम् । एतच्च निरुक्तमत्रापि घटते, यत आह यदिदं "नो कप्पइ" इत्यादि सूत्रं तत् पापं सचित्तवनस्पतिग्रहणरूपं गालयति, तथा मामिति-आत्मद्रव्यं नरकादौ 25 पतन्तं लाति-धारयति तद् एवंविधमपि कथं नाम 'ते' तवामङ्गलं भणितुमुचितम् ? न कथश्चिदित्यर्थः । किञ्च-यदि प्रतिषेधमात्रमेवामङ्गलं भवत इष्टम् ततो या काचिदनुज्ञा पापस्य धर्मस्य वा सा सर्वाऽपि भवतो मङ्गलं प्राप्नोति । यदि नामैवं ततः किम् ? इत्याह-'कथं' केन प्रकारेण 'तो' सर्वामप्यनुज्ञा मङ्गलमिच्छसि । किमुक्तं भवति-यदि पापानुज्ञाऽपि प्रतिषेधविषयविद्वेषमात्रादेव भवता मङ्गलमभ्युपगम्यते तर्हि धर्म-पापानुज्ञयोः सङ्करदोषः प्रसज्येत, उभ30 योरपि मङ्गलरूपत्वात् ; ततश्चाधर्मस्यापि मङ्गलरूपतया करणीयतापत्तिः स्यात् ; न चैतद् दृष्टमिष्टं वा, ततो न सर्वाऽप्यनुज्ञा मङ्गलम् न वा प्रतिषेधः सर्वोऽप्यमङ्गलम् , किन्तु या धर्मस्यानुज्ञा यश्च पापस्य प्रतिषेध एतौ द्वावपि मङ्गलम् , तदितरावनुज्ञा-प्रतिषेधावमङ्गलमिति ॥ ८०९॥
अमुमेवार्थ द्रढयन्नाह
20