________________
भाप्यगाथा ८०६-७] प्रथम उद्देशः ।
२५७ राजपुरुष इति तत्पुरुषः ३, नीलं च तदुत्वलं च नीलोत्पलमिति कर्मधारयः ४, चतुर्णी म सानां समाहारश्चतुर्मासी इति द्विगुः ५, धवश्च खदिरश्च पलाशश्च धव-खदिर-पलाशा इति द्वन्द्वः ६ इत्यादि । तद्धितविषयः—नाभेरपत्यं नाभेयः, जिनो देवताऽस्येति जैनः, भद्रबाहुणा प्रोक्तं शास्त्रं भाद्रवाहवमित्यादि । निरुक्तविषयः-भ्रमति च रौति चेति भ्रमरः, मह्यां शेते महिषः, जीवनस्य-जलस्य मूतः-पुटबन्धो जीमून इत्यादि, कृतं विस्तरेण । एष चतुर्विधोऽपि पदार्थः । समस्तो व्यस्तो वा यो यत्र सूत्रे सम्भवति स तत्र योजनीय इति । सम्प्रति प्रकृतसूत्रस्य पदार्थ उच्यते---नोशब्दः प्रतिषेधे, “कृपौङ सामथ्र्ये' इत्यस्य धातोर्वर्त्तमानाविभक्तरात्मनेपदीयान्यदथैकवचनान्तस्य कल्पते इति रूपम् , ततश्च 'नो कल्पते' नो समर्थीभवति, न युज्यते इत्यर्थः । एवं सर्वत्र प्रकृति-प्रत्ययविभागः शब्दशास्त्रानुसारेण स्वधिया योजनीयः । तथा ग्रन्थः-परिग्रहः, स च बाह्या-ऽऽभ्यन्तरभेदाद् द्विधा, बाह्यः क्षेत्र-वाम्त्वादिः, आभ्यन्तरः क्रोधादिः, ततो निर्गता 10 ग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषाम् । एवं निर्ग्रन्थीनां' साध्वीनाम् । वाशब्दावुभयस्यापि वर्गस्य प्रलम्बकल्प्यताप्रतिषेधमधिकृत्य तुल्यकक्षतासूचकौ । 'आमम्' अपक्वम् । तल:-वृक्षविशेषस्तत्र भवं तालं–तालफलम् , प्रकर्षेण लम्बते इति प्रलम्बं–मूलम् , तालं च प्रलम्बं च तालपलम्बं समाहारद्वन्द्वः । 'अभिन्नं' द्रव्यतो अविदारितं भावतोऽव्यपगतजीवम् । किम् ? इत्याह-'प्रतिग्रहीतुम्' आदातुमिति पदार्थः ३ ।
पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषु, पदार्थमध्य एवं वर्णित इति ४।
चालना-प्रत्यवस्थाने तु भाप्यगाथाभिरेव सविस्तरं भावयिप्येते इति सूत्रसमासार्थः ॥ अंथ भाप्यकारः प्रतिपदमेव सूत्रं व्याचिख्यासुः प्रथमतो नोकारपदं निर्ग्रन्थपदं च व्याख्यानयति--
अंकार-नकार-मकारा, पडिसेहा होति एवमाईया ।
सहिरन्नगो सगंथो, अहिरन्न-सुवनगा समणा ॥ ८०६॥ 20 अकार-नकार-मकारा एवमादयः शब्दाः, अत्राऽऽदिग्रहणाद् नोकारो गृह्यते, एते प्रतिषेधवाचका द्रष्टव्याः, 'अकरणीयं न करोपि, मा कार्षीः, नो कुरुषे' इत्यादिप्वमीषां प्रतिषेधवाचिनां प्रयोगदर्शनात् । तथा सहिरण्यकः सग्रन्थ उच्यते, अत्र हिरण्यग्रहणं बाह्या-ऽऽभ्यन्तरपरिग्रहोपलक्षणम् , ततो यः सपरिग्रहः स सग्रन्थः । श्रमणाः पुनरहिरण्य-सुवर्णका अतो निर्ग्रन्थाः। हिरण्यं रूप्यं सुवर्ण-कनकम् । अत्र च "कल्पते" इति पदं सुगमत्वाद् भाप्यकृता न 25 व्याख्यातम् , निर्ग्रन्थीशब्दव्युत्पत्तिरपि निर्ग्रन्थशब्दवद् द्रष्टव्या, लिङ्गमात्रकृतभेदत्वादनयोरिति ॥ ८०६ ॥ अथ नोकारशब्दस्यैव भावनां करोति
नोकारो खलु देसं, पडिसेहयई कयाइ कप्पिज्जा ।
आमं च अणण्णत्ते, तलो य खलु उस्सए होइ ॥ ८०७ ॥ नोशब्दः प्रायो देशप्रतिषेधे वर्त्तते, यथा “नोघटः' इत्युक्ते घटैकदेशः कपालादिकः प्रतीयते, 30 एवमत्रापि नोकारो देशं प्रतिषेधयति । ततश्चेदमुक्तं भवति-कदाचित् कल्पेत तालप्रलम्बम् , उत्सर्गपदरूपे देशे तावन्न कल्पते आत्यन्तिके पुनरपवादपदे कल्पतेऽपीति भावः । 'आमं च' १ अथ सूत्रस्पर्शिकनियुक्तिविस्तरेण प्रति° भा० ॥ २ आकर-णकार-मकरा ता० ॥