________________
२५६
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् १ तया सहितया सूत्रमुच्चार्य सूत्रानुगमः कृतार्थों भवति, नामादिनिक्षेपविनियोगं विधाय सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थ-पदविग्रह-चालना-प्रत्यवस्थानलक्षणव्याख्याचतुष्टये कृते सूत्रस्पर्शिक नियुक्तिः । नैगमादयो नया अपि प्रायः सूत्रगतपदार्थादिगोचरा इति तत्त्वतो नयलक्षणं चतुर्थमनुयोगद्वारमपि सूत्रस्पर्शिकनियुक्त्यन्तःपाति प्रतिपत्तव्यम् । 5 तथा चाह श्रीजिनभद्रगणिक्षमाश्रमणपूज्यः
होइ कयत्थो वोत्तुं, सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो, नामाइन्नासविणिओगं ॥ (विशे० गा० १००९) सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई ।
पायं सो च्चिय नेगमनयादिमयगोअरो होइ ॥ (विशे० गा० १०१०) 10 एते च सूत्रानुगमादयः सूत्रेण समकमेव व्रजन्ति । यत उक्तम् -
सुत्तं सुत्ताणुगमो, सुत्तालावगकओ य निक्खेवो।
सुत्तप्फासियनिजुत्ती, नया य वच्चंति समगं तु ।। तत्र प्रथमं सूत्रानुगमे सूत्रमुच्चारणीयम् , तच्चाहीनाक्षरादि गुणोपेतम् । तद्यथा-अहीनाक्षरम् अनत्यक्षरम् अव्याविद्धाक्षरं अस्खलितम् अमिलितम् अव्यत्यानेडितं प्रतिपूर्ण प्रतिपूर्णघोषं 15 कण्ठौष्ठविप्रमुक्तं गुरुवाचनोपगतम् । एवं च सूत्रे समुच्चारिते सति केषाश्चिद् भगवतामुद्घटितज्ञानां केचिदर्थाधिकारा अधिगता भवन्ति, केचित् पुनरनधिगताः, ततोऽनधिगतार्थाधिगमनाय व्याख्या प्रवर्तते । अत्रान्तरे "निक्खेवे" (गाथा १४९) इत्यादि मूलगाथासूचितं सूत्रार्थद्वारं समापतितम् । तच्चेदं सूत्रम्----
नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंवे 20 अभिन्ने पडिगाहित्तए ॥ [सूत्रम् १] अस्य च व्याख्या षोढा । तद्यथा
संहिता च पदं चैव, पदार्थः पदविग्रहः ।
चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा । तत्र संहिता–नो कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा आमं तालप्रलम्बमभिन्नं प्रतिग्रहीतुम् १ । 25 अथ पदमिति पदविच्छेदः कर्त्तव्यः । स चायम् --नो इति पदं कल्पते इति पदं निम्र.न्थानामिति पदं वा इति पदं निम्रन्थीनामिति पदं वा इति पदम् आममिति पदं ताल इति पदं प्रलम्बमिति पदं अभिन्नमिति पदं प्रतिग्रहीतुमिति पदमिति गतः पदविच्छेदः २।।
अथ पदार्थ उच्यते स च चतुर्की, तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तविषयश्च । तत्र कारकविषयः पचतीति पाचकः, पठतीति पाठकः, भुज्यत इति भोज30 नम् , स्वाति जनोऽनेनेति स्नानीयं चूर्णम् , दीयतेऽस्मै इति दानीयोऽतिथिः, बिभेति जनोऽस्मादिति भीमः, शेरतेऽस्यामिति शय्या इत्यादि । समासविषयो यथा-आरूढो वानरो यं वृक्षं स आरूढवानरो वृक्ष इति बहुव्रीहिः १, गङ्ग याः समीपमुपगङ्गमित्यव्ययीभावः २, राज्ञः पुरुषो १°लक्षणं तुर्यानुयो भा० ॥