SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ D ॥ णमो त्थु णं अणुओगमहत्तराणं सुयहराणं ॥ पूज्यश्रीभद्रवाहुस्वामिसंदृब्धस्वोपज्ञनिर्युक्तिसमेतं बृहत्कल्पसूत्रम् । श्रीसङ्घदासगणिक्षमाश्रमणसूत्रितेन लघुभाष्येण भूषितम् । तपाश्रीक्षेमकीर्त्त्याचार्य विहितया वृत्त्या समलङ्कृतम् । प्रथम उद्देशः । [ प्रलम्ब सू त्राधिकारः । ] अथानुगमद्वारम् । स चानुगमो द्विधा - नियुक्त्यनुगमः सूत्रानुगमश्च । निर्युक्त्यनुगमस्त्रिविधः - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्च । तत्र निक्षेपनिर्युक्त्यनुगमोभिहितः, ओघनिप्पन्ने निक्षेपेऽध्ययनपदस्य नामनिप्पन्ने च कल्पपदस्य निक्षिप्तत्वाद् वक्ष्यते च सूत्रालापकनिप्पन्ने सूत्रपदानां निक्षेप्स्यमानत्वात् १ । उपोद्घातनिर्युक्त्यनुगमः पुराभ्य द्वारगाथाभ्यामनुगन्तव्यः । तद्यथा— उसे निसे, य निगमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण, नए समोयारणाऽणुमए ॥ ( आव० नि० गा० १४० ) किं विहं कस कहिं, केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं, भवाऽऽगरिस फासणनिरुत्ती || ( आव० नि० गा० १४१ ) अनयोरर्थो मूलावश्यकादिटीकातोऽवसातव्यः २ । सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रपदव्या - 10 ख्यानरूपः, स चावसरप्राप्तोऽपि नाभिधीयते; कुतः ? इति चेत्, उच्यते— सूत्रमेव तावदद्यापि न प्राप्यते, अतः सूत्राभावात् कस्य स्पर्शनं करोत्यसौ ? इति, अतः क्रमप्राप्ते सूत्रानुगमे यदा सूत्र वक्ष्यते तदैव लाघवार्थं सूत्रस्पर्शिकनिर्युक्तिमपि वक्ष्याम इति । ननु यदि इयमत्र प्राप्तावसराऽपि नोच्यते ततः करमात्रावसरे पठ्यते : उच्यते - ( ग्रन्थाग्रम् - २००० ) नियुक्तिमात्रसाम्या - दसावत्राभिधीयत इत्यदोषः ३ । अथ सूत्रानुगमः स चेदानीमवसरप्राप्त एवेत्यत्र सूत्रानुगमे सूत्र - 15 मुच्चारणीयम्, ततः सूत्रालापकनिक्षेपेण निक्षेपणीयम्, ततोऽपि सूत्रस्पर्शिकनिर्युक्त्या तदेव विस्तारणीयम् । अत्र च सूत्रानुगमादीनामित्थं विपयविभागव्यवस्था दृष्टव्या - - पदच्छेदसहि 5
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy