________________
10
५७२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ___ एष एव ग्लानेऽपि मज्जनादिकः ‘गमः' प्रकारो भवति, यथा वैद्यविषय उक्तः । नवरं 'सविशेषः' भक्ति-बहुमानादिविशेषसहितो लिङ्गविवेकेन परिहीनः सर्वोऽपि कर्त्तव्यः ॥ १९६३ ॥ .. अथ ग्लान-वैद्ययोरनुवर्तनाया महार्थत्वं दर्शयन्नाह
को वोच्छिइ गेलन्ने, दुविहं अणुअत्तणं निरवसेसं ।
जह जायइ सो निरुओ, तह कुजा एस संखेवो ॥ १९६४ ॥ ग्लान्ये सति या द्विविधा अनुवर्तना-ग्लानविषया वैद्यविषया च तां 'निरवशेषां' सम्पूर्णां को नाम वक्ष्यति ? बहुवक्तव्यत्वाद् न कोऽपीत्यभिप्रायः । अतो यथाऽसौ ग्लानो नीरुग् जायते तथा कुर्यात् । एपः 'सङ्केपः' सङ्ग्रहः, उपदेशसर्वखमिति यावत् ॥ १९६४ ॥ अथ वैद्यस्य दानं दातव्यं तत्र विधिमाह---
आगंतु पउण जायण, धम्मावण तत्थ कइयदिटुंतो ।
पासादे कूवादी, वत्थुक्कुरुडे तहा ओही ॥ १९६५ ॥ ग्लाने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिणां याचते तदा तस्यानुशिष्टिर्दातव्यायथा न वर्त्तते यतीनां हस्ताद् वेतनकं ग्रहीतुम् , मुधाकृतममीषां बहुफलं भवति, अपि च 'धर्मापणः' धर्मव्यवहरणहट्टोऽयमस्माकम् , अतो यदत्र सम्भवति तदेव ग्रहीतव्यम् ।
ऋयिकदृष्टान्तश्च तत्रोच्यते । यथा
केनचित् ऋयिकेण गान्धिकापणे रूपकान् निक्षिप्य भणितम्-ममैतैः किञ्चिद् भाण्डजातं दद्याः । ततः सोऽन्यदा तत्रापणे मद्य मार्गयितुं लग्नः । वणिजा प्रोक्तः–ममापणे गन्धपण्यमेव व्यवहियते, नास्ति मम मद्यम् , अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माकमपि धर्मापणाद् धर्म
गृह्णातु भवान् , नास्ति द्रविणजातम् ।। 20 इत्युक्ते यदि नोपरमते ततः शैक्षेण प्रव्रजता यद् निकुञ्जादिषु परिष्ठापितं तदानीय दीयते । तस्याभावे यद् उत्सन्नखामिकं क्वापि प्रासादे कूपे वा आदिशब्दाद् निर्धमनादिषु वा निधानं तथा शटितपतितं यद् वास्तु-गृहं तद् उत्कुरुटमिवेति कृत्वा वास्तूत्कुरुटमुच्यते तत्र वा यद् निधानं तद् अवधिज्ञानिन उपलक्षणत्वाद् दशपूर्विप्रभृतीनां वा पार्थे पृष्ट्वा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् ॥ १९६५ ॥ वास्तव्यवैद्यस्य दानविधिमाह
बत्थव्य पउण जायण, धम्मादाणं पुणो अणिच्छंते ।
स चेव होइ जयणा, रहिए पासायमाईया ॥ १९६६ ॥ प्रगुणीभूते ग्लाने वास्तव्यवैद्योऽपि यदि याचनं कुरुते ततस्तस्यापि धर्म एवादानं-द्रव्यं तद् दातव्यम् । “पुणो अणिच्छंते" ति 'पुनः' भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति
१ इत आरभ्य “विजस्म व दव्यस्य व." इति ६९.७३ गाथायावद्वर्त्तिन्यो गाथाः चूर्णौ एतत्क्रमेण वर्तन्ते-आगंतु पउण. गाथा १९६५। उवहिम्मि पडग० गाथा १९६७ । कवडुगमादी गाथा १९६९ । वत्थव्य पउण० गाथा १९६६ । वितियपदे. माथा १९६८ । बितियपदे, गाथा १९७० । पउणम्मि य. गाथा १९७१ । विचस्व व दचस्स० गाथा १९७३ । विशेपचूर्गों पुनः टीकानुसारी गाथाक्रमो वर्तते ॥ २ यदा भृति या भा० ॥ ३ तदा मायने-'पर्यापणा' त रे० कां० ।।