________________
भाष्यगाथाः १९५६-६३] प्रथम उद्देशः ।
५७१ चड्डग सराव कंसिय, तंबक रयए सुवन्न मणिसेले ।
भोत्तुं स एव धोवइ, अणिच्छि किढि खुड्ड वसभा वा ॥ १९५९ ॥ 'चड्डकं' कमढकं तत्रासौ भोजनं कार्यते । अथ तत्र नेच्छति भोक्तुं ततः शरावे । तत्रानिच्छति कांस्यभाजने ताम्रभाजने वा । तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमये वा भाजने भोजयितव्यः । भुक्त्वा चासौ स्वयमेव तद् भाजनं धावति । अथ नेच्छति धावितुं ततः । 'किढी' स्थविरश्राविका सा प्रक्षालयति । तस्या अभाधे क्षुल्लकाः । क्षुल्लकाणामभावे वृषभाः ॥ १९५९ ॥ शिष्यः पृच्छति-कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति ? किं निमित्तं वा वैद्यस्य मज्जनादिकमियत् परिकर्म क्रियते ? उच्यते
पूयाईणि वि मग्गइ, जह विजो आउरस्स भोगट्ठी ।
तह विजे पडिकम्मं, करिति वसभा वि मुक्खट्टा ॥ १९६०॥ 10 यथा वैद्यः 'भोगार्थी' भोगाङ्गद्रव्याभिलाषी 'आतुरस्य रोगिणः 'पूयादीन्यपि' पूर्व-पकरक्तं तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि 'मार्गयति' शोधयति तथा वृषभा अपि मोक्षार्थ वैद्यस्य सर्वमपि प्रतिकर्म' मज्जनादिकं कुर्वन्ति ॥ १९६० ॥ यस्तु न कुर्यात् तस्य प्रायश्चित्तमाहतेइच्छियस्स इच्छाणुलोमगं जो न कुज सइ लामे ।
16 अस्संजमस्स भीतो, अलस पमादी व गुरुगा से ॥ १९६१ ॥ चिकित्सया चरति जीवति वा चैकित्सिकः-वैद्यस्तस्य या मज्जनादाविच्छा तस्याः अनुलोमम्अनुकूलं प्रतिकर्म 'सति लाभे' लाभसम्भवे "अस्संजमस्स भीउ' त्ति पञ्चम्यर्थे षष्ठी 'असंयमाद्' असंयतवैयावृत्त्यकरणलक्षणाद् भीतोऽलसः प्रमादी वा यो न कुर्यात् तस्य चत्वारो गुरुकाः ॥ १९६१ ॥ अथ ग्लान-वैद्ययोर्वैयावृत्त्यकारणान्युपदर्शयति
लोगविरुद्धं दुप्परिचओ उ कयपडिकिई जिणाणा य ।
अतरंतकारणेते, तदट्ठ ते चेव विजम्मि ॥ १९६२ ॥ ग्लानस्य यदि वैयावृत्त्यं न क्रियते ततो लोकविरुद्धं भवति, लोको ब्रूयात्---धिगमीषां धर्म यत्रैवं मान्द्यसम्भवेऽपीदृशमनाथत्वमिति । तथा परस्परमेकप्रवचनप्रतिपत्त्यादिना यः कोऽपि लोकोत्तरिकः सम्बन्धः सः 'दुप्परित्यजः' दुप्परिहर इति ग्लानस्य वैयावृत्त्यं कार्यम् । कृतप्रति-25 कृतिश्चैवं कृता भवति', यत् तेन ग्लानेन पूर्वं हृष्टेन सता यदात्मन उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः । 'जिनानां' तीर्थकृतां या 'आज्ञा' 'अग्लान्या ग्लानस्य वैयावृत्त्यं कुर्यात्' इत्यादिलक्षणा सा कृता भवति । एतानि अँतरन्तः-ग्लानस्तस्य वैयावृत्त्ये कारणानि । 'तदर्थ ग्लानार्थ यद् वैद्यस्य वैयावृत्त्यकरणं तत्रापि 'तान्येव' लोकविरुद्धपरिहारादीनि कारणानि द्रष्टव्यानि ॥ १९६२ ॥ अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाह
30 एसेव गिलाणम्मि वि, गमो उ खलु होइ मजणाईओ।
सविसेसो कायव्यो, लिंगविवेगेण परिहीणो ॥ १९६३ ॥ १°द अपराण्यप्यशुमा० ॥२°ति, तेनापि ग्ला भा० ॥ ३ अतरतः-ग्लानस्य वै भा०॥
20